________________
प्रकरणम् ४३ ]
बालमनोरमा-तत्त्वबोधिनीसहिता
[ २३६
तप ६८५ सन्तापे । तप्ता । अताप्सीत्। २४०३ निसस्तपतावनासेवने । ( ८-३-१०२ ) षः स्यात् । प्रासेवनं पौनःपुन्यम् ततोऽन्यस्मिन्विषये । निष्टपति | त्यज ६८६ हानौ । तत्यजिथ, तत्यक्थ । त्यक्ता । श्रत्याक्षीत् । षअ १८७ सङ्गे । 'दंशसअस्वआं शपि' ( सू २३६६ ) इति नलोपः । सजति । सङ्क्रा । दृशिर् ८८ प्रेक्षणे । पश्यति । २४०४ विभाषा सृजिदृशोः । येमिम । क्रादिनियमादिट् । यन्तेति । यंस्यति । यच्छतु । अयच्छत् । यच्छेत् । यम्यात् । अयंसीदिति । 'यमरम -' इति इट्सकौ । 'इट ईटि' इति सिज्लोपः । 'नेटि' इति निषेधान्न हलन्तलक्षणा वृद्धिरिति भावः । अयंस्यत् । तप संताप इति । श्रनिडयम् । तपति । तताप तेपतुः तेपुः । तेपिथ, ततप्थ तेपथुः तेप | तताप, ततप तेपिव तेपिम । तप्तेति । तप्स्यति । तपतु । श्रतपत् । तपेत् । तप्यात् । तासीदिति । हलन्तलक्षणा वृद्धिरिति भावः । अतप्स्यत् । निसस्तपतौ । शेषपूरणेन सूत्रं व्याचष्टे षः स्यादिति । 'अपदान्तस्य मूर्धन्यः' इत्यधिकारादिति भावः । निसः सकारस्य षः स्यात् तपधातौ परत इति यावत् । अनासेवने इत्येतद्व्याख्यास्यन् आसेवनशब्दं व्याचष्टे पौनःपुन्यमिति । आसेवनशब्देन सह नञ्समास इत्यभिप्रेत्याह ततोऽन्यस्मिन्विषय इति । श्रादेशत्वाभावात् पदान्तत्वाच्च श्रप्राप्ते वचनम् । निष्टपतीति । निष्कृष्य तपतीत्यर्थः । निसः सस्य षत्वे तकारस्य ष्टुत्वेन टः । श्रासेवने तु न षत्वम् । त्यज हानाविति । हानिरुत्सर्गः । श्रयमनिद् | त्यजति । तत्याज तत्यजतुः तत्यजुः । संयुक्त मध्यस्थत्वादेत्त्वाभ्यासलोपौ न । थलि तु भारद्वाजनियमाद्वेद्, तदाह तत्यजिथ, तत्यकथेति । इडभावे 'चोः कुः' इति भावः । त्यक्तेति । त्यक्ष्यति । त्यजतु । श्रत्य जत् । त्यजेत् । त्यज्यात् । श्रत्याक्षीदिति । हलन्तलक्षणा वृद्धिरिति भावः । प्रत्यक्ष्यत् । षञ्ज सङ्ग इति । षोपदेशोऽयमनिड् नोपधश्च । कृतानुस्वारपरसवर्णस्य निर्देशः । शपः पित्त्वेन कित्त्वाभावात्तस्मिन्परे 'अनिदिताम् -' इति नलोपाप्रवृत्तेराह दंशसञ्जेति नलोप इति । अनुस्वार पर सवर्णयोरसिद्धत्वादिति भावः । सजतीति । लिटि तु ससञ्ज । तुसादौ तु कित्त्वान्न नलोपः । ससञ्जतुः ससजुः थलि भारद्वाजनियम द्वेट् । ससञ्जिथ, ससक्थ । इडभावे जस्य कुत्वेन गकारे तस्य च सति अनुस्वारपरसवर्णसंपन्नस्य चवर्गपञ्चमस्य निवृत्तौ ककारे परेsनकारस्य परसवर्णो ङकारः । ससञ्जथुः ससञ्ज । ससञ्ज ससञ्जिव अयंसीदिति । 'यमरम-' इतीट्सकौ । निसस्तपता । मूर्धन्य इत्यनुवर्तमाने फलितमाह षः स्यादिति । श्रसेवने तु निस्तपति । पुनः पुनस्तपतीत्यर्थः ।