________________
२३८ ] सिद्धान्तकौमुदी।
[ भ्वादिगमेः परस्य सकारादेरिट् स्यात् । गमिष्यति । लुदित्वादङ् । 'अनङि' इति पर्युदासाबोपधालोपः । अगमत् । सर्पति । ससर्प । २४०२ अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् । (६-१-५६) उपदेशेऽनुदात्तो य ऋदुपधस्तस्याम्वा स्याउमलादावकिति परे । सप्ता, सप्तौ । स्रप्स्यति, सपय॑ति । अस्पत् । यम ८४ उपरमे । यच्छति । येमिथ, ययन्थ । यन्ता। अयंसीत् अयंसिष्टाम् । न्थेति । जग्मथुः जग्म । जगाम, जगम जग्मिव जग्मिम । कादिनियमादि । गमेरिट । गमेरिति पञ्चमी । 'सेऽसिचि-' इत्यतः से इत्यनुवृत्तेन आर्धधातुकस्येत्यनुवृत्तं विशेष्यते । तदादिविधिः। तदाह गमेः परस्येत्यादिना । परस्मैपदेवित्यस्य आत्मनेपदाभावे इत्यर्थः । एवं च संजिगमिषितेति तृचि इट सिध्यति । गमिष्यतीति । गच्छतु । अगच्छत् । गच्छेत् । गम्यात् । लुङि विशेषमाह लदित्त्वादङिति । 'गमहन-' इति उपधालोपो नेत्याह अनङि इति पर्युदासादिति । अगमदिति । लुङि अगमिष्यत् । सर्पतीति । शपि ऋकारस्य लघूपधगुणः, रपरत्वम् । ससपेति । समृपतुः ससृपुः। थलि क्रादिनियमान्निसमिट । अजन्तत्वाभावादकारवत्त्वाभावाच नेड्विकल्पः । ससर्पिथ ससृपथुः समृप । ससर्प समृपिव समृपिम । लुटि तासि लघूपधगुणे रपरे प्राप्ते अनुदात्तस्य च । 'मृजिदृशोः-' इत्यतो झल्यमकितीति 'श्रादेच-' इत्यत उपदेशे इति चानुवर्तते । तदाह उपदेशेऽनुदात्त इत्यादिना । मित्त्वादन्त्यादचः परः। 'उपदेशे' किम् । सप्तुम् । तुमुनि परे 'नित्यादिनित्यम्' इत्युदात्तोऽयम् । अथापि उपदेशे अनुदात्तत्वादम् भवत्येव । 'अकिति' इति किम् । क्तप्रत्यये मृप्तः । स्रप्तेति । सृपधातो टि तासि अमागमे ऋकारस्य यणिति भावः। सप्तैति । अमभावे लघूपधगुणे रपरत्वमिति भावः। एवं स्रय॑ति सप्स्यतीति । सर्पतु । असर्पत् । सपेत् । सृप्यात् । असृपदिति । लुदित्त्वात् च्लेरङि सति ङित्त्वान्न गुण इति भावः । अस्रप्स्यत् , असय॑त् । यम उपरम इति । उपरमो विरमणम् । अनिडयम् । यच्छतीति । 'इषुगमियमाम्-' इति शपि छः । ययाम येमतुः येमुः । थलि भारद्वाजनियमादिट्पक्षे 'थलि च सेटि' इत्येत्त्वाभ्यासलोपो, तदाह येमिथ, ययन्थेति । इडभावे रूपम् । येमथुः येम। ययाम, ययम येमिव केचिदमुमुदितं पठन्ति तत्प्रामादिकमित्याहुः । जग्मतुरिति । 'गमहन-' इत्युपधालोपः । अनुदात्तस्य । 'प्रादेच उपदेशेऽशिति' इत्यत उपदेश इत्यनुवर्तते। उपदेशे किम् , सप्तुम् । तुमुनि उदात्तः । ऋदुपधस्य किम् , कर्ता । झलीति किम् , ससर्प । अकितीति किम् , सृप्तः । असृपदिति । तृदित्त्वादङ् । 'स्पृशमश-' इति सिज्विकल्पवार्तिके सूपं प्रक्षिप्य अस्राप्सीदिति केचिदुदाहरन्ति तत्प्रमादिकमित्याहुः ।
HTHHETHELHI