________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२३७ मतान्तरे तु न णत्वम् । यम १८० मैथुने । येभिथ, ययब्ध । यब्धा । यप्स्यति । प्रयाप्सीत् । णम ९८१ प्रवत्वे शब्दे च । नेमिथ, ननन्थ । नन्ता । अनंसीत् अनंसिष्टाम् । गम्लु १८२ सृप्लु ६८३ गतौ । २४०० इषुगमियमां छः। (७-३-७७) एषां छः स्याच्छिति परे । गच्छति । जगाम जग्मतुः जग्मुः। जगमिथ, जगन्थ । गन्ता । २४०१ गमेरिट परस्मैपदेषु। (७-२-५८) तदाह भाष्यमिति । मतान्तरे त्विति । 'पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेण, इति पक्षे तु षत्वस्य बहिरङ्गतया असिद्धत्वान्न णत्वमित्यर्थः । यभधातुरनिट् । यभति । ययाभ येभतुः । थलि तु भारद्वाजनियमादिटपक्षे पित्त्वेनाकित्त्वेऽपि 'थलि च सेटि' इत्येत्त्वाभ्यासलोपं मत्वा श्राह येभिथेति । ययब्धेति । थलि इडभावपक्षे पित्त्वेनाकित्त्वादेत्त्वाभ्यासलोपाभावे ययम् थ इति स्थिते "झषस्तथो:-' इति थस्य धत्वे भस्य जश्त्वेन बकार इति भावः । येभथुः येभ । ययाभ, ययभ । कादिनियमादिः । येभिव । येभिम । यब्धेति । लुटि तासि तकारस्य 'भषस्तथो:-' इति धत्वम् । भकारस्य जश्त्वेन बकार इति भावः । यप्स्यतीति । स्ये भस्य चन पः । यभतु । अयभत् । यभेत् । यभ्यात् । अयाप्सीदिति । हलन्तलक्षणा वृद्धिरिति भावः । अयप्स्यत् । रणम प्रहत्व इति । अनिडयं णोपदेशश्च । केचित्त्विमं धातुमुदितं पठन्ति । तत्तु प्रामादिकम् । तथा सति 'उदितो वा' इति क्त्वायामिड्विकल्पस्य [ 'यस्य विभाषा' इति निष्ठायामिड्विकल्पस्य च ] आपत्तेः । नमति । ननाम नेमतुः नेमुः। थलि तु भारद्वाजनियमादिट्पक्षे पित्त्वेनाकित्त्वेऽपि 'थलि च सेटि' इत्येत्त्वाभ्यासलोपं मत्वा आह नेमिथ, ननन्थेति । इडभावपक्षे पित्त्वेन अकित्त्वादेत्त्वाभ्यासलोपाभावे रूपम् । नेमथुः नेम । ननाम, ननम नेमिव नेमिम । कादिनियमादिट् । नन्तेति । मस्यानुस्वारपरसवौँ । नंस्यति । नमतु । अनमत् । नमेत् । नम्यात् । अनंसीदिति । 'यमरम्-' इति सगिति भावः । अनंस्यत् । गम्ल सृप्त गताविति । अनिटौ । मृपिरषोपदेशः । इषुगमि । शितीति । “ष्ठिवुक्लम्वाचमाम्-' इत्यतः तदनुवृत्तेरिति भावः। उदिन्निर्देशात्तौदादिकस्य इषेप्रेहणम् । अत्राचीत्यनुवर्य अजादौ शितीत्याश्रित्य इष्यति इष्णाति इत्यत्र छत्वं नेति भाष्ये स्थितम् । एवं चात्र सूत्रे तुदादौ च उदित्पाठः अनार्ष इति शब्देन्दुशेखरे स्थितम् । गच्छतीति । शपि मकारस्य छकारः। जग्मतुरिति । 'गमहन-' इत्युपधालोपः । एवं जग्मुः । भारद्वाजनियमात्थलि वेट , तदाह जगमिथ, जगइति । अत एव तिङन्तेऽपि षत्वमुदाहरन्ति परिष्कन्दतीति । णम प्रबत्वे ।
१ अयं पाठो नितान्तमसङ्गतः, यस्य विभाषेतिसूत्रस्य निष्ठायामिणनिषेधकत्वाद् नमतेश्चानिटकत्वानिष्ठायामिडप्राप्तेः ।