________________
२३६ ]
सिद्धान्तकौमुदी ।
[ भ्वादि
>
२३६८ वेः स्कन्देरनिष्ठायम् । ( ८- ३-७३ ) षत्वं वा स्यात् । कृत्ये - वेदम् श्रनिष्ठायाम् इति पर्युदासात् । विष्कन्ता, विस्कन्त्ता । निष्ठायां तु विस्कचः । २३६६ परेश्च । ( ८-३-७४ ) अस्मात्परस्य स्कन्देः सस्य षो वा । योगविभागाद् श्रनिष्ठायाम् इति न संबध्यते, परिष्कन्दति, परिस्कन्दति । परिस्कन्नः, परिष्कण्णः । षत्वपत्ते णत्वम् । न च पदद्वयाश्रयतया बहिरङ्गत्वात् षत्वस्यासिद्धत्वम्, 'धातुपसर्गयोः कार्यमन्तरङ्गम्' इत्यभ्युपगमात् । 'पूर्व धातुरुपसर्गेण युज्यते ततः साधनेन' इति भाष्यम् । 'पूर्व साधनेन' इति
अस्कान्तम् अस्कान्त | अस्कान्त्सम् अस्कान्तस्व अस्कान्तस्म । अस्कत्स्यत् । वेः स्कन्देः । शेषपूरणेन सूत्रं व्याचष्टे षत्वं वा स्यादिति । 'अपदान्तस्य मूर्धन्यः' इत्यधिकारात् 'सिवादीनां वा-' इत्यतो वेत्यनुवृत्तेश्चेति भावः । वेः परस्य स्कन्देः सस्य षो वा स्याद् अनिष्ठायां परत इति फलितम् । ननु विस्कन्दतीत्यादौ कुतो न षत्वविकल्प इत्यत श्राह कृत्येवेदमिति । पर्युदासस्य ब्राह्मणमानयेत्यादाविव सजातीयापेक्षत्वादिति भावः । विष्कन्ता, विस्कन्तेति । तृचि रूपे । अषोपदेशत्वादप्राप्ते विभाषेयम् । परेश्च । ननु 'विपरिभ्यां स्कन्देरनिष्टायाम्' इत्येव सिद्धे सूत्रभेदो व्यर्थ इत्यत आह योगेति । षत्वपक्ष इति । परिष्कन्द् त इति स्थिते अनिदितामिति नलोपे ' रदाभ्याम् -' इति निष्ठातकारस्य तत्पूर्वदकारस्य च नत्वे सस्यानेन षत्वपक्षे प्रथमनकारस्य रेफापेक्षया भिन्नपदस्थत्वेऽपि षात् परत्वाद् गणत्वे द्वितीयनकारस्य ष्टुत्वेन णत्वे परिष्करण इति रूपमित्यर्थः । ननु दकारस्थानिकनकारस्य षकारनिमित्तकं णत्वमन्तरङ्गम्, निमित्तनिमित्तिनोरेकपदस्थत्वात् । षत्वं तु परि इत्युपसर्गात्मकपदान्तरस्थमिणं निमित्तीकृत्य प्रवर्तमानं बहिरङ्गम् । ततश्च णत्वे कर्तव्ये बहिरङ्गस्य षत्वस्यासिद्धत्वात् षात्परत्वाभावात् कथं णत्वमित्याशङ्कय निराकरोति न चेति । पदद्वयाश्रयतया बहिरङ्गस्य षत्वस्यासिद्धत्वं यत्प्रसक्तं तन्न शङ्कुषमित्यन्वयः । कुत इत्यत आह धातूपसर्गयोरिति । पूर्व धातुरिति । धातुरुपसर्गेण सह युज्यते सन्ध्यादिकार्यं लभते । पश्चाद् धातूपसर्गकार्यप्रवृत्त्यनन्तरं साधनेन युज्यते । साधनशब्दः कारकवाची । इह तु तद्वाचकः प्रत्ययो लक्ष्यते । प्रत्ययेनेति यावत् । इदं च 'संप्रसारणाच्च' इत्यादिसूत्रभाष्ये स्पष्टम्, ताम् । डुलभष् । 'वितः क्त्रिः' । लप्त्रिमम् । 'षिद्भिदादिभ्यः - ' इत्यङ् । लभा । लिटि । लेभे । लुङि । अलब्ध । वे स्कन्देरनिष्ठायाम् । 'सिवादीनाम् -' इत्यतो वेत्यनुवर्तते । श्रषोपदेशत्वादप्राप्ते विभाषेयम् । माधवादिप्रन्थानुरोधेनाह कृत्येवेदमिति । प्राचा तु विस्कन्दतीत्युदाहृतं तत्र मूलं मृग्यमिति भावः । न संबध्यत