________________
प्रकरणम् ४३ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ २३५
'सिवादीनां वा-' ( सू २३११) इति विकल्पः । एतदर्थमेव 'उपसर्गात्सुनोति-' ( सू २२७० ) इत्येव सिद्धे स्तुस्वज्योः 'परिनिवि-' ( सू २२७५ ) इत्यन पुनरुपादानम् । पर्यष्वक्त, पर्यस्वत । हद ६०७ पुरीषोत्सर्गे । हदते । जहदे | हत्ता । हत्स्यते । हदेत । हप्सीष्ट । महत्त ।
:
अथ परस्मैपदिनः । जि विदा ६७८ अव्यक्ते शब्दे । स्कन्दिर् ३७६ गतिशोषणयोः । चस्कन्दिथ, चस्कन्दथ । स्कन्ता । स्कन्त्स्यति । नलोपःस्कद्यात् । इरिस्वादङ् वा — अस्कदत्, अस्कान्स्सीत् । अस्कान्ताम् । अस्कान्स्सुः । 'प्राक्सितादव्यवायेऽपि' इत्यटा व्यवधानेऽपि तस्य प्रवृत्तेः । ' उपसर्गात्सुनोति - ' इत्यादिसूत्रे स्वजेः पठितत्वेन स्वः 'प्राक्सितात् -' इति सूत्रविषयत्वादित्यत श्राह एतदर्थमेवेत्यादि । परिनिवि इति । नित्यषत्वविधौ स्वजिरप्युपात्तः । ततः 'उपसर्गात्सुनोति-' इत्येव तस्य षत्वे सिद्धे पुनरुपादानं 'सिवादीनां वाड्व्यवायेऽपि ' इत्युत्तरसूत्रे षत्वविकल्पविधौ अनुवृत्त्यर्थमेव संपद्यते । परिनिविभ्यः परस्य स्वजेः 'सिवादीनां वा -' इति षत्वविकल्पार्थ पूर्वसूत्रे 'परिनिविभ्यः सेव - ' इत्यत्र स्वजि - ग्रहणमिति पर्यवस्यतीत्यर्थः । हद पुरीषोत्सर्गे । श्रनिडयम् । क्रादिनियमादिट् । जहदिषे । जहदिध्वे । जहदिव हे जहदिमहे । हन्तेति । लुटि तासि दस्य चर्त्वम् । अहन्तेति । 'झलो झलि' इति सिज्लोपः । गुपादयोऽष्टावनुदात्तेतो गताः ।
अथ परस्मैपदिन इति । 'कित निवास' इत्यन्ता इति शेषः । त्रि विदेति । ञिः श्राकारश्च इत् । सेट् । स्वेदति । सिष्वेद सिष्विदतुः सिष्विदुः । सिष्वेदिथ सिष्विदधुः सिष्विद । सिष्वेद सिष्विदिव सिष्विदिम । स्वदिता । स्वेदिष्यति । स्वेदतु । श्रस्वेदत् । स्वेदेत् । स्विद्यात् । श्रस्वेदीत् । स्वेदिष्यत् । स्कन्दिरिरित्। अनिट् । भारद्वाजनियमात्थलि वेडित्याह चस्कन्दिथ, चस्कत्थेति । श्रनिट्पक्षे चस्कन्द् थ इति स्थिते 'खरि च' इति दकारस्य तकारः । चस्कन्दिव चस्कन्दिम । स्कन्तेति । लुटि तासि चर्त्वन दस्य तः । स्कन्त्स्यतीति । स्ये दस्य चर्त्वम् । स्कन्दतु । अस्कन्दत् । स्कन्देत् । श्राशीर्लिङि विशेषमाह नलोप इति । इरः समुदायस्य इत्त्वेन धातोरंनिदित्त्वादाशीर्लिङि नकारस्य लोप इत्यर्थः । अस्कददिति । लुङि श्रङि सति ङित्त्वान्नलोप इति भावः । अङभावे आह अस्कान्त्सीदिति । अनेकद्दव्यवधानेऽपि हलन्तलक्षणा वृद्धिः प्रवर्तत इति निरूपितमक्षुधातौ । अतोऽत्र वृद्धौ दस्य चर्खेन तः । अस्कान्तामिति । हलन्तलक्षणवृद्धौ 'झलो झलि' इति सिज्लोपे दस्य चर्व्वम् । अस्कान्त्सुरिति । उसि सिचि वृद्धौ दस्य चर्त्वम् । अस्कान्त्सीः