________________
२३४ ]
सिद्धान्तकौमुदी। [ भ्वादि. परिष्वङ्गे । २३६६ दंशसअस्वां शपि । (६-४-२५ ) २३६७ रजेश्च । (६-४-२६) एषां शपि नल्लोपः । स्वजते । परिध्वजते। श्रन्थिप्रन्थिदम्भिस्वञ्जीनां लिटः कित्वं वा' इति व्याकरणान्तरम् । देभतुः सस्वजे इति भाग्योदाहरणादेकदेशानुमत्या इहाप्याश्रीयते। 'सदेः परस्य लिटि' (स २३६१) इति सूत्रे 'स्वोरुप. संख्यानम्' (वा ४६६८) अतोऽभ्यासापरस्य षत्वं न । परिषखजे, परिषखो। सस्खजिषे, सस्वजिषे । स्वङका । स्वङपयते । स्वजेत । स्वलक्षीष्ट । अस्वङक्त। प्रत्यध्वडक । 'प्राक्सितात्-' (सू २२७६ ) इति षत्वम् । परिनिविभ्यस्तु षिति । डरित् षकारश्च । 'ड्वितः वित्रः' 'षिद्भिदादिभ्योऽ' इति प्रयोजनम् । अनिड्, रभधातुवद्रूपाणि। ष्वञ्ज परिष्वङ्गे इति । षोपदेशोऽयमनिट । देशसञ्ज। रजेश्च । व्याख्यासौकर्याय सूत्रद्वयमुपात्तम् । नलोप इति । नकारस्य लोप इत्यर्थः, 'नान्नलोपः' इत्यतः तदनुवृत्तेरिति भावः । परिष्वजत इति । 'परिनि. विभ्यः-' इति षत्वमिति भावः। संयोगात्परत्वाल्लिटः कित्त्वे अप्राप्ते आह श्रन्थीति । व्याकरणान्तरमिदं पाणिनीयैरपि ग्राह्यमित्याह देभतुरिति । 'अत एकहल्मध्ये-' इति सूत्रभाष्ये देभतुः इत्युदाहृतम् । 'सदेः परस्य लिटि' इति सूत्रभाष्ये सखजे इत्युदाहृतम् । ततश्च एकदेशानुमत्या श्रन्थिप्रन्थीत्यादिवाक्यं कृत्स्नं व्याकरणान्तरस्थं भाष्यानुमतमिति विज्ञायत इत्यर्थः । सदेरिति । 'सदेः परस्य लिटि' इति षत्वनिषेधसूत्रे स्वोरपि प्रहणामित्यर्थः । ततश्च खदिखज्योरुत्तरखर डस्य सस्य षत्वं न स्यादिति लब्धम् , तदाह अतोऽभ्यासात् परस्येति । परिषस्वजे परिष. खञ्ज इति । परस्येत्युक्तरुत्तरखण्डस्यैव षत्वनिषेधः, न त्वभ्यासस्य । कित्त्वपक्ष नलोपः। सस्वजाते, सस्वजाते । सस्वजिरे, सस्वजिरे । कादिनियमादिडित्याह सखजिषे, सखञ्जिष इति । सस्वञ्जाथे, सस्वजाथे। सस्वनिध्वे, सस्वजिध्वे । सस्वजे, सस्वजे। सस्वजिवहे, सस्वजिवहे । सस्वजिमहे, सस्वजिमहे । स्वङ्क्तेति । स्वञ् ता इति स्थिते जकारस्य कुत्वेन गकारे सति श्चुत्वसंपन्नत्रकारस्य निवृत्ती नकारस्यानुस्वारे तस्य परसवर्णेन उकारे गकारस्य चर्वे रूपम् । एवमप्रेऽपि । स्वजेतेति । 'दंशसञ्ज-' इति शपि नलोप इति भावः । स्वक्षीष्ट । अस्वङ. नेति । लुङि अस्वञ् स् त इति स्थिते "झलो झलि' इति सिज्लोपे कुत्वादि पूर्ववदिति भावः। ननु प्रत्यष्वङ्क्त इत्यत्र अटा व्यवधानादुपसर्गस्थादिणः परत्वाभावात् कथम् 'उपसर्गात्सुनोति-' इति षत्वमित्यत आह प्राक् सितादिति । परिनिविभ्यस्त्विति । परस्य स्वः इति शेषः। ननु परिनिविभ्यः परस्यापि स्वोः 'परिनिविभ्यः सेवसितसयसिवुसह्सुस्तुस्वजाम्' इति नित्यमेव षत्वमुचितम् ,