________________
प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [२३३ सनोऽत्र नार्धधातुकरवम् । तेनेड्गुणौ न । जुगुप्सते । जुगुप्सांचक्रे । तितिक्षते । मीमांसते । भष्भावः । चर्वम् । बीभत्सते । रभ १७४ राभस्ये । प्रारभते । पारेभे। रब्धा । रप्स्यते । डुलभष् १७५ प्राप्तौ । लभते। वा ६७६ नास्ति प्रयोग इति सूचितम् । तथा चुरादिष्वेषामनुदात्तानुबन्धराहित्यमित्यपि सूचितम् । अन्यथा अनुबन्धकरणस्य केवलेष्वचरितार्थत्वात् सन्नन्तादिव ण्यन्तादपि अकर्तृगे फले आत्मनेपदार्थत्वापातात्सन्नन्तादात्मनेपदमित्युक्तिरसंगता स्यादित्यन्यत्र विस्तरः । धातोरितीति ! 'आर्धधातुकं शेषः' इत्यत्र धातोर्विहितः प्रत्यय इतिविहितविशेषणाश्रयणात् सनश्चास्य धात्वधिकारविहितत्वाभावान्नार्धधातुकत्वमित्यर्थः। तेनेति । सन आर्धधातुकत्वाभावेनेत्यर्थः । जुगुप्सत इति । निन्दतीत्यर्थः । गुपेः सनि अनार्धधातुकत्वादिड्गुणयोरभावे 'सन्यडोः' इति द्वित्वे हलादिशेषे अभ्यासचुत्वमिति भावः । जुगुप्सांचक इति । 'कास्प्रत्ययात्-' इत्याम् । जुगुप्सिता । जुगुप्सिष्यते । जुगुप्सताम् । अजुगुप्सत । जुगुप्सेत । जुगुप्सिषीष्ट । अजुगुप्सिष्ट। अजुगुप्सिष्यत। तितिक्षत इति । तीक्ष्णीकरोतीत्यर्थः। तिजेः सनि द्वित्वादि । जस्य कुत्वन गः, तस्य चर्वेन कः, सस्य षत्वमिति विशेषः । मीमांसते इति । विचारयतीत्यर्थः। मान्धातोः सनि द्वित्वे हलादिशेष अभ्यासह्रस्वे 'सन्यतः' इति इत्त्वे 'मान्बध-' इत्यभ्यासदीघे, 'नश्च-' इत्यनुस्वारे, मीमांसधातोलडादीति भावः। बधधातोः सनि विशेषमाह भष्भाव इति । बकारस्य भकार इत्यर्थः। चर्वमिति । धस्य तकार इत्यर्थः । तथा च भत्सेति सन्नन्तं संपन्नम् । बीभत्सत इति । भष्वचत्वयोरसिद्धत्वाद् बध इत्यस्य द्वित्वे हलादिशेषे 'सन्यतः' इति इत्त्वे 'मान्बध-' इति दीर्घे बीभत्सधातोलडादीति भावः । तदेवं गुपादिषु सप्तसु सन्नन्तेषु अत्र क्रमे धातुपाठे निबद्धाश्चत्वार उदाहृताः । कितमानशानधातवस्तु अनुपदमेव धातुपाठक्रमे पठिष्यमाणास्तत्र तत्रोदाहरिष्यन्ते। रभ राभस्य इति । अनिडयम् । राभस्यं शीघ्रीभावः । प्रापर्वकस्तु प्रारम्भार्थकः । तदाह आरभत इति । रब्धेति । झषस्तथोरिति धत्वम् , भस्य जश्त्वम् । रप्स्यत इति । रभताम् । अरभत । रभेत । रप्सीष्ट । अरब्ध । अरप्स्यत । इलमएवं चानुपूर्वीमात्रसाम्येऽपि भ्वादयश्चुरादिभ्यो भिन्ना एवेति फलितम् । इड्गुणौ नेति । यद्यपि 'हलन्ताच' इति सनः कित्वेनापि गुणाभावः सुसाधस्तथापीडभावार्थमुक्तहेतुरेवाश्रयणीय इति किं हेत्वन्तराश्रयणेनेति भावः। केचित्तु अर्थवद्ग्रहणपरिभाषया इच्छासन एव 'हलन्ताच्च' इति सूत्रे प्रहणमिति नास्य स्वार्थसनः कित्त्वमित्याहुः । रभ राभस्ये। राभस्यमुपक्रमः। लिटि । रेभे । रेभाते । लुङि। अरब्ध । अरप्स