________________
२३२ ]
सिद्धान्तकौमुदी। [ भ्वादिद्वितीयस्य । अभ्यासकार्यम् । गुपिप्रभृतयः किदिमा निन्दायर्थका एवानुदात्तेतः । दानशानौ तु स्वरितेती। एते नित्यं समन्ताः। अर्थान्तरेषु स्वननुबन्धकाः चुरादयः । अनुबन्धस्य केवल्लेऽचरितार्थत्वात्समन्तात्तङ् । धातोरित्यविहितत्वात् अटाट्यते इत्यत्र प्रत्ययसहितस्य द्वित्वानापत्तेः। अभ्यासकार्यमिति । हलादिशेषादिकमित्यर्थः । गुपिप्रभृतय इति । कितधातुभिन्ना गुप्तिजमानबधाश्चत्वारो गुपेनिन्दायामित्यादिनिबद्धनिन्दाद्यर्थका एव अनुदात्तेतः सन्भाज इत्यर्थः । कितधातुस्तु परस्मैपदिषु पठिष्यमाणत्वादुदात्तदेव सन् व्याधिप्रतीकारादिषु पञ्चस्वेवार्थेषु सन्भागिति भावः । दानशानौ त्विति । दान खण्डने शान तेजने इति धातू स्वरितेतावेव सन्तौ आर्जवे निशाने चार्थे सन्भाजावित्यर्थः, तयोरनुपदमेव स्वरितेत्सु पाठादिति भावः। एते नित्यं सन्नन्ता इति । एते गुप्ति जादयः सप्त धातवो गुपेनिन्दायामित्यादिनिबद्धष्वर्थेषु नित्यं सन्नन्ताः। निन्दाद्यर्थकत्वे सनं विना एषां प्रयोगो नास्तीत्यर्थः । अर्थान्तरेषु त्विति । निन्दादिभ्योऽन्येषु धातुपाठनिर्दिष्टेषु तदन्येषु चार्थेषु अनुदात्तानुबन्धरहिताः सन्तश्चौरादिका एव भवन्ति, न तु भौवादिका इत्यर्थः । चुरादिष्वेतेषामनुदात्तानुबन्धकत्वे अनुबन्धकरणस्य केवलेष्वचरितार्थतया एयन्तादकर्तृगेऽपि फले तङ् स्यादिति भावः। नन्वेवं सति भ्वादिगणे गुपादेरनुदात्तानुबन्धकरणं व्यर्थम् , उक्तरीत्या गोपनाद्यर्थकानामेषामनुबन्धरहितचौरादिकत्वनियमन निन्दाद्यर्थेषु सन्नन्तनियमेन च ततोऽन्यत्र प्रयोगाभावादित्यत आह अनुबन्धस्येति । गुपादिषु केवलेष्वनुबन्धनिर्देशस्य निष्फलतया अनुबन्धनिर्देशस्य सन्नन्तार्थत्वं विज्ञायत इति कृत्वा सन्नन्तात्तरित्यर्थः । नचैवमपि भ्वादिगणे एषां गोपनाद्यर्थनिर्देशो व्यर्थ एवेति वाच्यम् , भ्वादौ तदर्थनिर्देशस्य अपाणिनीयत्वादिति भावः । तदुक्तं भाष्ये-'गुपादिष्वनुबन्धकरणसामर्थ्या सन्नन्तादात्मनेपदम्' इति । अत्र सन्नन्तादात्मनेपदमित्युक्त्या केवलानामेषां शब्विकरणानां नुम् । अपि च पापचक इत्यादावल्लोपस्य स्थानिवत्त्वाद् 'अत उपधायाः' इति वृद्धिर्न प्रवर्तते । अपि च 'यस्य हलः' इत्यत्र यस्येति संघातग्रहणमय-दित्यादौ यलोपव्यावृत्त्यर्थमिति सर्वसंमतम् । तथा च अपापचिष्टेत्यादौ यलोपोऽप्यकारफलमिति 'सन्यकोः' इति षष्टयेव युक्ता । एवं हि यङ्लुकि प्रत्ययलक्षणेन यङन्तत्वाद् द्वित्वं सिध्यति । परसप्तम्यां तु द्वित्वस्याङ्गकार्यत्वाद् 'न लुमता-' इति निषेधः प्रवर्तेतेति दिक् । दानशानौ चेति । आर्जवनिशानार्थाविति भावः । अर्थान्तरे त्विति । धातुपाठोपात्ते गोपनादिरूपेऽर्थे इत्यर्थः । अननुवन्धका इति । सानुबन्धकत्वे तु केवले चरितार्थत्वाद् अनुबन्धस्य सन्नन्तादिवाकर्तृगफलाद् ण्यन्तादपि तस्यादिति भावः ।