________________
प्रकरणम् ४३ ] बालमनोरमा तत्त्वबोधिनीसहिता। [२३१ सन्स्यात् , मानादीनामभ्यासस्येकारस्य दीर्घश्च । 'गुपेनिन्दायाम्' ( वा ११८७)। 'तिजेः क्षमायाम्' (वा १६८८)। 'कितेयाधिप्रतीकारे निग्रहे अपनयने नाशने संशये च' । (वा १६८६ ) । 'मानेर्जिज्ञासायाम्' ( वा १६६२)। बधेश्चित्तविकारे' (वा १६६३) । 'दानेरार्जवे' (वा १६६४) 'शानेनिशाने' (वा १६६१) । 'सनाद्यन्ताः -' (सू २३०४) इति धातुस्वम् । २३६५ सन्यङोः। (६-१-६) सचन्तस्य यङन्तस्य च प्रथमैकाचो द्वे स्तोऽजादेस्तु पदमेव स्वरितेत्सु पठिष्येते । एभ्यश्चतुर्व्यः सन् स्यादिति द्वितीयसूत्रे प्रथमखण्ड. स्यार्थः । श्राभ्यासस्येति च्छेदः । अभ्यासस्य विकार आभ्यासः । स च 'सन्यतः' इति इत्त्वमेव, नतु ह्रस्वः, इति 'गुणो यङ्लुकोः' इति सूत्रे भाष्ये स्पष्टम् । ततश्च मान्बधदान्शानामभ्यासावयवस्य इकारस्य सन्सीनयोगशिष्टो दीर्घश्च स्यादिति द्वितीयसूत्रे द्वितीयखण्डस्यार्थः, इत्यभिप्रेत्य सूत्रद्वयस्य फलितमर्थमाह सूत्रद्वयेति । अथ उक्तसनो वृत्तिकृदायुपनिबद्धान् अर्थविशेषानाह गुपेनिन्दायामित्यादिना शानेनिशाने इत्यन्तेन । अत्र गोपनाद्यर्थकानां निन्दादौ वृत्तिस्त्वर्थनिर्देशस्योपलक्षणत्वाद्बोध्या । जिज्ञासाशब्देन जिज्ञासाप्रयोज्यो विचारो लक्ष्यते । मानर्विचारे इत्येव वृत्तिकृत् । सनन्तस्य धातुकार्यप्राप्त्यर्थमाह सनाद्यन्ता इति । सन्यङोः। अवयवषष्ठयेषा । प्रत्ययत्वात्तदन्तग्रहणम् । 'एकाचो द्वे प्रथमस्य' इति 'अजादे द्वितीयस्य' इति चाधिकृतम् , तदाह सन्नन्तस्येत्यादिना । सनि यङि च परे इति तु न व्याख्येयम् , तथा सति प्रतिपूर्वादिणः सनि अटधातोर्यङि च प्रतीषिषति, अभ्यासः । स चात्र 'सन्यतः' इतीत्वमेव । यदि तु ह्रख इत्येव गृह्येत तर्हि तद्धितनिर्देशो व्यर्थः स्यात्तदेतदाह अभ्यासस्येकारस्येति । वृत्तिकाराद्युपनिबद्धानन्दर्शयति गुपेनिन्दायामित्यादिना । सन्यङोः। सप्तमीमाश्रित्य सनि यङि च परे इति व्याख्यायां प्रतीषिषति, अटाट्यते इत्यादि न सिध्येत् । सन्यडोः प्रकृतिभागस्यैव द्वित्वप्रसकेरत आह सन्नन्तस्येति । ननु सप्तमीपतेऽपि सन्यङोरेव द्वित्वं स्यान्न तु प्रकृतिभागस्य । शपोऽकारणैव जुगुप्सते तितिक्षते इत्यादिरूपसिद्धेस्तयोरकारोच्चारणस्य 'अजादेर्द्वितीयस्य' इति द्वित्वार्थत्वात् । यद्यपि निमित्तस्य कार्यित्वस्वीकारे आट अाटतुरित्यादौ लिटि परतः पूर्वभागमात्रस्य द्वित्वं न सिध्येत्तथाप्यकारोच्चारणसामर्थ्यात् सन्यङोः कार्यित्वमभ्युपगन्तुं शक्यमिति चेत् । मैवम् , अकारफलानां बहूनां सत्त्वात्। तथा हि दित्स्यं धित्स्यमित्यत्र 'अचे यत्' इति यति कृते 'यतो नावः' इत्याद्युदात्तः सिध्यति। अकाराभावे तु 'ऋहलोः-' इति रायतीष्टस्वरो न सिध्येत् । किंच पिपठिषि ब्राह्मणकुलानी. त्यत्राल्लोपस्य स्थानिवत्त्वाद् झलन्तलक्षणो नुम् न भवति, अकाराभावे तु स्यादेव
१'-माभ्यासस्य-' इति बालमनोरमाकृत्सम्मतः पाठः ।