________________
२३० ]
सिद्धान्तकौमुदी ।
[ भ्वादि
गुणः । ‘तृफल-' ( सू २३०१ ) इत्येत्त्रम् । तेरतुः तेरुः । २३६१ वृतो वा । (७-२-३८) वृङ्वृम्भ्यामृदन्ताचेटो दीर्घो वा स्याच्च तु लिटि । तरिता, तरीता । 'अलिटि' इति किम् - तेरिथ । 'हलि च' ( सू ३५४ ) इति दीर्घः । तीर्यात् । २३६२ सिचि च परस्मैपदेषु । ( ७ - २-४० ) अत्र वृत इटो दीर्घो न । अतारिष्टाम् ।
श्रथाष्टावनुदात्तेतः । गुप ६७० गोपने । तिज ६७१ निशाने । मान १७२ पूजायाम् । बध १७३ बन्धने । २३६३ गुप्तिज्किद्भयः सन् । ( ३-१-५ ) २३६४ मान्वधदान्शान्भ्यो दीर्घश्वाभ्यासस्य । ( ३-१-६) सूत्रद्वयोक्रेभ्यः स्यातामिति भावः । तरतीति । णलि ततार । तुसादौ कित्त्वाद् गुणनिषेवमाशङ्कवाद ऋच्छत्यृतामिति । ततर् ऋतुस् इति स्थिते कारस्य गुणशब्देन भावितत्वाद् 'न शंसददवादिगुणानाम्' इति निषेधमाशङ्कयाह तृफलेति । तेरतुः तेरुरिति । तेरिथ तेरथुः तेर । ततार, ततर तेरिव तेरिम । वृतो वा । वृऋत् इत्यनयोः समाहारद्वन्द्वात्पञ्चम्येकवचनम् । वृइति वृड्जोर्प्रहणम् । 'आर्धधातुकस्येट्-' इत्यत इडियनुवृत्तं षष्ठया विपरिणम्यते । 'ग्रहोऽलिटि दीर्घः' इत्यतः अलिटि दीर्घ इत्यनुवर्तते, तदाह वृवृभ्यामित्यादि । तरिता तरीतेति । इटो दीर्घविकल्पः । गुणे रपरत्वम् । तरिष्यति । तरतु । अतरत् । तरेत् । हलि चेति । आशीर्लिङि कित्त्वादृकारस्य गुणनिषेधे, इत्त्वे, रपरत्वे 'हलि च' इति दीर्घे, तीर्थात् इति रूपमित्यर्थः । अतारीत् श्रतारिष्टाम् इत्यादौ 'वृतो वा' इति दीर्घे प्राप्ते सिचि च । अत्रेति । परस्मैपदपरके सिचि वृङ्भ्याम् ऋदन्ताच्च परस्य इटो दीर्घो नेत्यर्थः । 'न लिङि' इत्यतो नेत्यनुवर्तते । अतारिष्टामिति । अतारिषुः । अतारिषम् तारिष्व तारिष्म । तरिष्यत् ।
1
>
1
गुप गोपन इति । गोपनं रक्षणम् । तिज निशान इति । निशानं तीक्ष्णीकरणम् । मान पूजायाम् । बध बन्धन इति । एते चत्वारोऽनुदात्तेत इति स्थितिः । गुप्तिज्किद्भयः । मान्बध । गुप्तिजी इद्द पठितौ । 'कित निवासे' इत्यनुपदमेव परस्मैपदिषु पठिष्यते । एभ्यस्त्रिभ्यो धातुभ्यः सन्प्रत्ययः स्यादिति प्रथमसूत्रार्थः । मानधातुर्बधधातुश्व इह पठितौ । दान खण्डने, शान तेजने इत्यनु
|
अत्राहुः–परादप्यन्तरङ्गं प्रबलमितीत्वे प्राप्ते वार्तिकमिदमारब्धमिति । वृतो वा । इह 'आर्धधातुकस्येड्-' इत्यत इडित्यनुवर्तते 'ग्रहो लिटि -' इत्यतो लिटि दीर्घ इति च, तदाह इटो दीर्घो वेत्यादि । सिचि च । 'न लिखि' इत्यतो नेत्यनुवर्तनादाइ इटो दीर्घो नेति । मान्बध । श्रभ्यासस्येति च्छेदः । श्रभ्यासस्य विकार