________________
प्रकरणम् ४३ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ २२६
।
:
ध्याता । त्रैङ् ६६५ पालने । त्रायते । तत्रे । पूङ् ३६६ पवने । पवते । पुपुवे । पविता । मूङ् ६६७ बन्धने । मवते । डीङ् १६८ विहायसा गतौ । डयते । डिड्ये । डयिता । तॄ ६६६ प्लवनतरणयोः । २३६० ऋत इद्धातोः । ( ७ - १ - १०० ) ऋदन्तस्य धातोरङ्गस्य इत्स्यात् । 'इस्वोश्वाभ्यां गुणवृद्धी विप्रतिषेधेन' (वा ४३७३ ) । तरति । 'ऋच्छस्कृताम् ' ( सू २३८३ ) इति शश्याथे शरियध्वे । शश्ये शश्यिवहे शश्यिमहे । श्याता । श्यास्यते । श्यायताम् । अश्यायत । श्यायेत । श्यासीष्ट । अश्यास्त । अश्यास्यत । प्यैधातुरपि श्यैवत् । त्रैप्येवम् । पूङ् पवन इति । सेट् उदन्तानामनिट्सु पर्युदासात् । पवते इति । शपि गुणः, अवादेशः । पुषुवे इति । कित्त्वाद् गुणभावे उवङ् । पुपुवाते पुपुविरे । पुपुविषे पुपुवाथे पुपुविध्वे । पुपुवे पुपुविवद्दे पुपुविमहे । पविता । पविष्यते । पवताम् । श्रपवत । पवेत । पविषीष्ट । अपविष्ट । अपविष्यत । मूङ्घातुरप्येवम् । sts विहायसा गताविति । आकाशेन गमने इत्यर्थः । सेडयम्, अनिट्सु डीङः पर्युदासात् । डयते इति । शपि ईकारस्य गुणे श्रयादेश इति भावः । डिड्ये 1 इति । कित्त्वाद् गुणाभावे ईकारस्य यणिति भावः । डिड्याते डिज्यिरे । डिज्यिषे डिड्याथे डिड्यिध्वे । डिड्ये डिडियव हे डिज्यिवहे । डयिता । डयिष्यते । डयताम् । अडयत । डयेत । डयीषीष्ट डयिषीयास्ताम् डयिषीरन् । डयिषीष्ठाः डयिषीयास्थाम् डयिषीढ्वम्, डयिषीध्वम् । डयिषीय डयिषीवहि डयिषीमहि । प्रयिष्ट । अडयिष्यते । इति स्मिङादयो डीङन्ता ङितः । तृधातुः सेद् परस्मैपदी । श्रनिट्सु ऋदन्तपर्युदासात्सेट् । ऋत इद्धातोः । ऋत इति धातोर्विशेषणम् । तदन्तविधिः । अङ्गस्येत्यधिकृतम्, तदाह ऋदन्तस्येति । 'धातोः' किम् ? मातृणाम् । तथा च तरति पिपर्ति, ततार पपार इत्यादौ ऋकारस्य शपि तिपि गलि च परे गुणवृद्धी बाधित्वा अन्तरङ्गत्वाद् इत्त्वम् उत्त्वं च स्यादिति शङ्का प्राप्ता । तां परिहर्तुमाह इत्त्वोत्त्वाभ्यामिति । ल्यब्लोपे पञ्चमीद्विवचनम् । 'ऋत इद्धातो:' इति इत्त्वम् 'उदोष्ठयपूर्वस्य' इति उत्त्वमन्तरङ्गमपि बाधित्वा गुणवृद्धी विप्रतिषेधसूत्रेण परत्वात् सवर्णग्राहकत्वेऽपि तपरकरणमिह व्यर्थम् । न चात्र दीर्घः स्यादिति वाच्यम्, 'घुमास्था - ' इत्यनेनैव तत्सिद्धौ विधिवैयर्थ्यापत्तेः । न चैवमपि प्लुतः स्यादिति वाच्यम्, 'प्लुताऽप्लुतप्रसङ्गेऽपि प्लुतश्च विषये स्मृतः' इति सिद्धान्तादिति । डीङ् । विहायसा आकाशेन । विहायसामिति पाठस्त्वनाकर इत्याहुः । ऋत इद्धातोः । किरति । गिरति । कीर्णः । गीर्णः । स्तीर्णः । धातोः किम्, 1 मातृणाम् । इत्वोत्वाभ्यामिति । 'परत्वाद् गुणवृद्धी भवतः' इति वक्तव्ये किमिदं वार्तिकमिति चेत्