________________
२२८ ]
सिद्धान्तकौमुदी। [ भ्वादि. देख् १६२ रक्षणे । दयते । २३८८ दयतेर्दिगि लिटि । (७-४-६) दिग्यादेशेन द्वित्वबाधनमिष्यत इति वृत्तिः । दिग्ये । २३८६ स्थाध्वोरिञ्च । (१-२-१७) अनयोरिदादेशः स्यात् सिप किस्स्यात् । अदित । अदिथाः । अदिषि । श्यैङ् ६६३ गतौ । श्यायते । शश्ये । प्यैङ् ६६४ वृद्धौ। प्यायते । पप्ये । देधातुमवत् । दयतेर्दिगि । दिगीति लुप्तप्रथमाकम् । देङ्धातोः दिगि इत्यादेशः स्याल्लिटीत्यर्थः । ननु लिट एशादौ दिग्यादेशे कृते द्वित्वे सति दिदिग्ये इत्यादि स्यादित्यत आह दिग्यादेशेनेति । एतच्च भाष्ये स्पष्टम् । वृत्तिरिति । भाष्यस्याप्युपलक्षणम् । क्रादिनियमादिट् । दिग्यिषे दिग्याथे दिग्यिध्वे । दिग्ये दिग्यिवहे दिग्यिमहे । दाता । दास्यते । दयताम् । अदयत । दयेत । दासीष्ट । लुङि सिचि अदास् त इति स्थिते स्थाध्वोरिश्च । 'असंयोगाल्लिट्-' इ यतः किदिति 'हनस्सिच्' इत्यतः सिजिति चानुवर्तते, तदाह अनयोरित्यादिना । परस्मैपदेषु नेदं प्रवर्तते, तत्र 'गातिस्था-' इति सिचो लुका लुप्तत्वात् । अत एव 'लिङ्सिचौ-' इति सूत्रादात्मनेपदेष्विति नानुवर्तितम्, व्यावयाभावात् । अदितेति । इत्त्वे कृते 'हखादङ्गात्' इति सिचो लुक् । त इत्यस्य ङित्त्वादिकारस्य न गुणः । आतामादौ तु इत्वे कृतेऽपि सिचो न लुक , झलि परत एव लुग्विधेः। सिचः कित्त्वादिकारस्य न गुणः । अदिषाताम् अदिषत । अदिथाः अदिषाथाम् । अदिवम् । अदिषीति । अदिष्वहि अदिष्महि । अदास्यत् इत्यपि ज्ञेयम् । श्यै गती। श्यायते इति । शपि आयादेशः । शिद्विषयत्वादात्वं नेति भावः। शश्ये इति । एशि प्रात्वे तो लोपः। शश्याते शश्यिरे। क्रादिनियमादिट् । शश्यिषे माङ् इति उकारानुबन्धकस्यैव पठितत्वादिति । दिग्यादेशेनेति । दयतेलिटि परे द्वित्वं प्राप्तं दिग्यादेशश्च । तत्र विशेषविहितेन दिग्यादेशेन द्वित्वशास्त्रस्य बाधः । न चैवं 'प्यायः पी' 'चक्षितः ख्याम्' इति पीख्यालोरपि विशेषविहितत्वात्ताभ्यां द्वित्वबाधः स्यादिति वाच्यम् , विषयसप्तमीमाश्रित्य लिडुत्पत्तेः प्रागेव तयोः प्रवृत्तत्वात्। दिग्यादेशविधौ तु लिटीति परसप्तम्येव न तु विषयसप्तमी । लक्ष्यानुरोधात् । तदेतत्सूचयति इष्यत इति । दयतेलिटि द्वित्वे प्राप्ते तद्बाधित्वा परत्वादिग्यादेश इति तु नोक्तम् । परस्परलब्धावकाशयोरेव परस्य बलीयस्त्वात् । दिग्यादेशं विना द्वित्वस्य सावकाशत्वेऽपि द्वित्वं विना दिग्यादेशस्य तदभावादिति दिक् । स्थाध्वोरिञ्च । इह "लिङ्सिचौ-' इति सूत्रादात्मनेपदेविति नानुवर्तितम् । परस्मैपदेषु 'गातिस्था-' इति लुकः प्रवृत्तेावालाभात् । अस्थित । अस्थिषाताम् । भाव्यमानोऽण् क्वचित् सवर्णात् गृह्णातीत्यत्रेदमपि तपरकरणं लिङ्गमित्याहुः । अत्र वदन्ति-विधीयमानस्य