________________
प्रकरणम् ४३ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ २२७
रवितासे । टड् ६६० अवध्वंसने । धरते । दधे । मेड् १६१ प्रणिदाने | प्रणिदानं विनिमयः प्रत्यर्पणं च । प्रणिमयते । 'नेर्गद-' ( सू २२८५ ) विम् । तत्र घुप्रकृतिमाङिति पठित्वा ङितो माप्रकृतेरपि ग्रहणस्येष्टत्वात् । रवितासे इति । धृधातुरनिट् । दधे इति । कित्त्वाद् गुणनिषेधे ऋकारस्य यण् । दधाते दधिरे । क्रादिनियमादिट् । दधिषे दाथे दधिध्वे । दधे दधिव दधिमहे । धर्ता । लुटि स्ये 'ऋद्धनो:-' इति इटि धरिष्यते । धरताम् । अधरत । धरेत । आशीर्लिङि सीयुटि 'उश्व' इति कित्त्वान्न गुणः । धृषीष्ट । 'हस्वादङ्गात् ' इति सिचो लुक् । श्रधृत अधृषाताम् अघृषत । अधरिष्यत । मेङ् प्रणिदाने । णत्वमिति । प्रणिदानशब्दे प्रणिमयते इत्यत्र च ' नेर्गद -' इति णत्वमित्यर्थः । ननु प्रणिमयत इत्यत्र णत्वमिदं न संभवति, शिद्विषये त्वाभावेन, मारूपाभावात् । तथा प्रणिमानशब्देऽपि णत्वं न संभवति, तत्र मेङः कृतात्वस्य लाक्षणिकमारूपत्वात् । ' गामादाग्रहणेष्वविशेषः' इत्याश्रित्य मेङोऽपि कृतात्वस्य णत्वविधौ ग्रहणे तु मीनातिमिनोत्यो रात्त्वे प्रनिमाता प्रनिमास्यति इत्यत्रापि नेर्णत्वापत्तिरित्यत आह तत्रेति । तत्र 'नेर्गद-' इति णत्वविधौ । घुमेत्यस्य स्थाने घुप्रकृतिमाङिति पठित्वा तत्र प्रकृतिशब्दस्य घुमाप्रकृतिपरत्वमाश्रित्य घौ माधातौ घुमाङ् प्रकृतौ च परत इति पर्यवसानमाश्रित्य माप्रकृतेर्बितो मेधातोरकृतात्वस्यापि ग्रहणस्य भाष्यकृता अभ्युपगतत्वादित्यर्थः । एवं च प्रणिमयते इत्यत्र नाव्याप्तिः, मेङः कृतात्वमा प्रकृतित्वे सति ङित्त्वात् । नापि मीनाति मिनोत्योरात्त्वे प्रनिमाता प्रनिमास्यतीत्यत्र अतिव्याप्तिः, मारूपस्य वित्त्वाभावादिति भावः । एतच्च घुसंज्ञासूत्रे भाष्ये स्थितम् । ममे ममाते ममिरे । कादिनियमादिद्, ममिषे ममाथे ममिध्वे । ममे ममिवहे ममिमहे । माता । मास्यते । मयताम् । श्रमयत । मयेत । मासीष्ट । श्रमास्त । श्रमास्यत । विक्लेवः । वबयोरभेदाद्विक्लब इत्यन्ये । मेङ् प्रणिमयत इति । ननु 'नेर्गद - ' इति कथमिह णत्वं स्यात् शिद्विषये श्रात्वाभावेन मारूपाभावादशिद्विषये कृतात्वेऽप्यस्मिन् णत्वं दुर्लभमेव प्रतिपदोक्तस्यैव माधातोर्ग्रहणौचित्यान्न त्वस्य लाक्षणिकस्य । 'गामादाग्रहणेष्वविशेषः' इत्यभ्युपगमे तु मीनातिमिनोत्योरात्वे कृते प्रनिमाता प्रनिमास्यतीत्यादावतिप्रसङ्गः स्यादित्यत श्राह तत्रेति । इष्टत्वादिति । श्रयं भावःघुसंज्ञासूत्रे प्रणिदयते प्रणिधयतीत्यादौ णत्वसिद्धये भाष्यकारैरित्थं सिद्धान्तितम्'नेर्गदनद -' इति णत्वविधौ 'घुमा' इत्यस्य स्थाने 'घुप्रकृतिमाङ्' इति पठनीयम् । घुश्च प्रकृतिश्च माङ् चेति द्वन्द्वः । प्रकृतिश्च कस्येत्याकाङ्क्षायां संनिधानात्पूर्वोतयोरेव । तेन न क्वाप्यव्याप्तिः । नापि मा माने इत्यत्र मीनातिमिनोत्योश्चातिव्याप्तिः । १ 'विच्यवः' इति क्वचित् ।
1
>