________________
२२६ ]
सिद्धान्तकौमुदी।
[भादि
न भेदः । कुङ् १५१ घुङ् १५२ उङ् १५३ हुन् १५४ शब्दे। अन्ये तु उङ् कुङ् खुङ् गुङ घुइ डुङ् इत्याहुः । कवते । चुकुवे । घवते । प्रवते । उवे 'वार्णादाङ्गं बल्लीयः' (१५६) इत्युवङ् । ततः सवर्णदीर्घः । श्रोता । श्रोष्यते । अोषीष्ट । प्रोष्ट । ब्वते । झुडुवे । डोता । व्युङ् १५५ ज्यु १५६ प्रङ् १५७ प्लुङ् ६५८ गतौ । क्लुङ् इत्येके । रु १५६ गतिरेषणयोः। रेषणं हिंसा । रुरुवे । प्रमृतिभ्यः शपः' इति शपो लुगिति भावः । फले तु न भेद इति । शपो लुकि सति, गाते इत्याद्येव रूपम् । तस्मिन्नसत्यपि गा अ ते इत्यादौ सवर्णदीर्घ सति तदेव रूपमिति न रूपभेद इत्यर्थः। कुङ् घुङ् उङ् कुङ् शब्द इति । चत्वारोऽपि क्ति आद्यद्वितीयचतुर्थाः कवर्गप्रथमचतुर्थपञ्चमाद्याः । तृतीयस्तु केवलोवर्णः । अन्य त्विति । प्रायः केवलोवो उित् । इतरे तु पञ्च क्रमेण कवर्गाद्याः। तत्र कुधातोरुदाहरति कवते इति । लिटि अजादौ कित्त्वाद् गुण भावे उवङ् , तदाह चुकुवे इति । चुकुवाते चुकुविरे । क्रादिनियमादिट् , चुकुविषे चुकुवाथे चुकुविध्वे । चुकुवे चुकुविवहे चुकुविमहे । कोता। कोष्यते । कवताम् । अकवत । कवेत । कोषीष्ट । अकोष्ट । अकोष्यत । एवं खवते इत्यादि । उधातोराह अवते इति । ऊवे इति । उ उ ए इति स्थिते द्वितीयस्य उवर्णस्य उवङि कृते सवर्णदीर्घ इति भावः। ननु उवडो बहिभूतप्रत्ययापेक्षतया बहिरङ्गत्वादन्तरङ्गे सवर्णदीर्घ कृते ऊ ए इति स्थिते उवङि उवे इत्येवोचितमित्यत आह वार्णादिति । ऊवाते ऊविरे। क्रादिनियमादिट् । ऊविषे ऊवाथे ऊविध्वे । ऊ ऊविवहे ऊविमहे । अोता ओष्यते इति । श्रावत । अवेत । ओषीष्ट । औष्ट । औष्यत-इत्यपि ज्ञेयम् । कुधातोर्लटि डवते इति रूपमुक्तम् । संप्रति लिटि रूपमाह गुडुवे इति । 'कुहोश्चुः' इति उकारस्य स्थानिनः चुर्भवन् स्थानसाम्यस्य पञ्चस्वभावादाभ्यन्तरप्रयत्नसाम्यस्य पञ्चस्वप्यविशिष्टत्वादल्पप्राणानुनासिक्यसाम्याद् अकारः। प्रथमतृतीयौ तु न भवतः, आनुनासिक्याभावात् । च्युङादयोऽप्युवर्णान्ता अनिटः कुधातुवद् ज्ञेयाः । रुङ् गतीति । सेट्कोऽयम् । 'ऊदन्तैर्योतिरुक्ष्णु-' इत्यनिटम् पर्युदासात् , तदाह स्थानिवद्भावेन जित्त्वादेव तङः सिद्धत्वादिति भावः । श्रादादिकोऽयमिति । एवं च गाते गाथे इत्यादावातामाथामोः परत 'आतो डित.' इत्यस्य प्रवृत्तिशकैव नास्तीति भावः । फले तु न भेद इति । न च गाते गाथे इत्यादौ शपा सह सवर्णदीर्घ कृतेऽपि पूर्वस्मात्परस्य विधौ कर्तव्ये स्थानिवत्त्वादतः परत्वेन ङितामाकारस्य इय् स्यादिति शङ्कयम् , पञ्चमीसमासपक्षस्यानित्यत्वाभ्युपगमादिति भावः । झुडुवे इति । 'कुहोश्चुः' इति उस्य यः । क्लुङ् इति । अस्मात् पचाद्यचि
१ क्वचित् 'च्यु' इति पाठः।