________________
प्रकरणम् ४३] बालमनोरमात्तत्त्वबोधिनीसहिता। [२२५ अगे। गेत । गेयाताम् । गेरन् । गासीष्ट । 'गाङ्कुटादिभ्यः-' (सू २४६१) इति सूत्रे इडादेशस्यैव गाडो ग्रहणम्, न स्वस्य । तेनाडित्वाद् 'घुमास्था(सू २४६२) इतीत्वं न, अगास्त । प्रादादिकोऽयमिति हरदत्तादयः । फले तु अतः परस्य दीर्घाकारस्याभावाद् 'आतो कित.' इति इय् न भवति । भावपि तथैव रूपमाह गाते इति । शपा सह प्राकारस्य सवर्णदीधै 'आत्मनेपदेष्वनतः' इति झेः अदादेशे टेरेत्वमिति भावः। गासे गाथे गाध्वे । लट उत्तमपुरुषैकवचने विशेषमाह इट इति । गा अ इ इति स्थिते सवर्णदीर्घे सति इट एत्वे कृते 'वृद्धिरेचि' इति वृद्धौ गै इति रूपमित्यर्थः। गावहे गामहे । लिटि अजादौ आल्लोपः। जगे जगाते जगिरे । कादिनियमादि । जगिषे जगाथे जगिध्वे । जगे जगिवह जगिमहे। गाता। गास्यते । गाताम् गाताम् गाताम् । गाव गाथाम् गाध्वम् । गे गावहै गामहै। अगात अगाताम् अगात । अगाथाः अगाथाम् अगाध्वम् । लङ इटीति । अगा अ इ इति स्थिते टिदादेशत्वाभावादेत्वाभावे सवर्णदीर्धे श्राद्गुणे अगे इति रूपमित्यर्थः । अगावहि अगामहि । गेतेति । लिस्तादेशे शपि गा अ त इति स्थिते सवर्णदीर्धे सीयुटि सलोपे यलोपे 'श्राद् गुणः' इति भावः । गेयातामिति । गा अातामिति स्थिते सवर्णदीर्घे सीयुटि सलोपे 'आद् गुणः' इति भावः । गेरनिति। भस्य रन्भावे गा अरन् इति स्थिते सवर्णदीर्घे सीयुटि सलोपे यलोपे 'आद् गुणः' इति भावः । गेथाः गेयाथाम् गेध्वम् । गेय गेवहि गेमहि । श्राशीलिङि आह गासीऐति । गासीयास्ताम् गासीरन् । गासीष्ठाः गासीयास्थाम् गासीध्वम् । गासीय गासीवहि गासीमहि । ननु गासीष्टेत्यादौ 'गाङ्कुटादिभ्योऽञ्णिन्त्'ि इति णिद्धिनप्रत्ययस्य ङित्त्वविधानेन सीयुडागमविशिष्ट प्रत्ययस्य डित्त्वाद् 'घुमास्थागापाजहातिसां हलि' इति हलादौ विकति विहितमीत्त्वं स्यादित्यत आह गाङ्कुटादिभ्य इति सूत्रे इति । इङ इत्यनुवृत्तौ 'गाइ लिटि' इति विहितस्य गाङादेशस्यैव गाङ्कुटादिसूत्रे प्रहणम् , न त्वस्य गाधातोरित्यर्थः । एतच्च 'गाङ् लिटि' इति सूत्रे भाष्ये स्पष्टम् । तेनेति । गाङ्कुटादिसूत्रे प्रकृतस्य गाधातोरग्रहणेनेत्यर्थः । लुख्याह अगास्तेति । अगासाताम् अगासत । अगास्थाः अगासाथाम् अगाध्वम् । अगासि अगास्वहि अगास्महि । अगास्यत । आदादिकोऽयमिति । ततश्च ‘अदिडितः' इति न प्रवर्तते । 'आत्मनेपदेष्वनतः' इति तु प्रवर्तते इति ताता झेषु तुल्यं रूपमित्याहुः । गै। गावहे । गामहे । जगे। जगाते । गाताम् । गाताम् । गाताम् । गास्व । उत्तमे तु-गै। गावहै । गामहै । अगात । अगाताम् । न त्वस्येति । गाते इत्यादौ तर्क प्रवर्त्य डकारस्य चरितार्थत्वात् । आदेशडकारस्तु न चरितार्थः ।