________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता।
[२२३
उवङोपवादः । शृण्वन्ति । शृणोमि शृण्वः, शृणुवः शृएमः,शृणुमः। शुश्रोथ । शुश्रुध । शृणु। शृणवानि । शृणुयात् । श्रयात् । घोषीत् । ध्र १४३ स्थैर्ये । ध्रवति । अयं कुटादौ गत्यर्थोऽपि । दु १४४ दु १४५ गतौ । दुदोथ, दुदविथ । दुदुविव । दुद्रोथ । दुद्रुव । 'णिश्रि-' (सू २३१२) इति वयवस्य असंयोगपूर्वस्य उकारस्य यण् न भवति । अत्र भाष्ये 'बहुलं छन्दसि' इत्यनुवृत्तौ 'यङोऽचि च' इति विहितस्य यङ्लुकः छान्दसत्वात् 'छन्दस्युभयथा' इत्यार्धधातुकत्वाश्रयणादेव योयुवतीत्यत्र यणभावसिद्धेः हुश्नुग्रहणं भाषायामपि क्वचिद् यङ्लुकं ज्ञापयतीत्युहाम । तथा च भाषायामपि अनेकाचः असंयोगपूर्वकोकारान्तायो। युवतीत्यादौ यङ्लुक्रिद्धेः तत्र यणभावार्थ हुनुप्रहणमिति फलति । ज्ञापकस्य सामान्यापेक्षत्वादुदाहृतोवर्णान्तादन्यत्रापि क्वचिद्यङ्लुक् सिध्यति । एतदेवाभिप्रेत्य भाष्ये-'हुश्नुग्रहणं ज्ञापयति-भाषायामपि यङ्लुग् भवति' इत्युक्त्वा, 'किमेतस्य ज्ञापने प्रयोजनम् , बेभिदीति चेच्छिदीति इत्येतत्सिद्धं भवति' इत्युक्तम् । अत्र भिदिच्छिद्योरेव ग्रहणादुदाहृतोकारान्तादन्यत्र भवन् यङ्लुग् आभ्यामेव भवति, न त्वन्यत्रेत्याहुः । भिदिच्छियोर्ग्रहणं प्रदर्शनमात्रमित्यन्ये । शृण्वन्तीति । शृणुथः। शृणुथेत्यपि ज्ञेयम् । 'लोपश्चास्यान्तरस्यां म्वोः' इत्यभिप्रेत्याह शृण्व इत्यादि । शुश्राव शुश्रुवतुः शुश्रुवुः । थलि वमयोश्च क्रादित्वान्नित्यमिशिनषेधः, तदाह शुश्रोथ । शुश्रुवेति । शुश्रुमेत्यपि ज्ञेयम् । श्रोता । श्रोष्यति। शृणोतु, शृणुतात् शृणुताम् । शृण्वन्तु । 'उतश्च प्रत्ययादसंयोगपूर्वात्' इति हेर्युकं मत्वा आह शरिवति । शृणुतात् शृणुतम् शृणुत । शणवानीति । आटः पित्त्वेन ङित्त्वाभावाद गुण इति भावः । ध्रु स्थैर्य इति । अनिट् । ध्रवति । दुध्राव दुध्रुवतुः दुध्रुवुः । भारद्वाजनियमात्थलि वेट् । दुधविथ, दुधोथ दुध्रुवथुः दुधुव । दुध्राव, दुध्रव दुध्रुविव दुध्रुविम । कादिनियमादिट् । ध्रोता । ध्रोष्यति । ध्रवतु । अध्रवत् । ध्रवेत् । धूयात् । अध्रौषीत् । अध्रोष्यत् । दु द्रु गताविति । अनिटौ। दवति । द्रवति । दुदाव दुदुवतुः दुदुवुः । दुद्राव दुदुवतुः दुद्रुवुः। अस्य भारद्वाजनियमात्थलि वेडित्याह दुदोथ, दुदविथेति । दुदुवथुः दुदुव। दुदाव, दुदव । वमयोः कादिनियमा. दिडित्याह दुदुविवेति । द्वितीयस्य क्रादित्वात्थलि नित्यं नेट , तदाह दुद्रो. थेति। दुद्रुवथुः दुद्रुव । दुद्राव, दुद्रव । वमयोः क्रादित्वान्नेट , तदाह दुद्रुएवं च सार्वधातुकपरयोर्डश्नुवोरनेकाच्त्वाव्यभिचारादनेकाच इत्यस्यानुवृत्तिरिह किमर्थेत्याशङ्काया निरवकाश एव । तदनुवृत्त्यभावे हुश्नुग्रहणस्य ज्ञापकत्वासंभवादिति दिक् । दुदविथेति । भारद्वाजनियमादि । दुद्रोथ । दुद्रुवेति । क्रादित्वालिटि