________________
२२२ ] सिद्धान्तकौमुदी।
[ भ्वादिषीत् । श्रु ९४२ श्रवणे । २३८६ श्रुवः शृ च । (३-१-७४) श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्ययश्च । शपोऽपवादः । भोर्डित्वाद्धातोर्गुणो न, शृणोति शृणुतः । २३८७ हुश्नुवोः सार्वधातुके । (६-४-८७) जुहोतेः श्नुप्रत्ययान्तस्यानेकाचोऽङ्गस्य चासंयोगपूर्वोवर्णस्य यरस्यादजादौ सार्वधातुके । पूर्वोत्तराभ्यामिति । स्तुधूभ्यामित्यर्थः । सुनोतेरिति । षुञ् अभिषवे इति श्नुविकरणस्येत्यर्थः । असोषीदिति । इडभावे सिचि वृद्धिः इति भावः । असोष्यत् । श्रु श्रवण इति । उदन्तोऽयमनिट । श्रुवः च । शृ इति लुप्तप्रथमाकम् । चकारेण 'स्वादिभ्यः श्नुः' इति सूत्रस्थः श्नुः समुच्चीयते, तदाह श्रुवः इत्यादेशः स्यात् श्नुप्रत्ययश्चेति । शपोऽपवाद इति । अनन शब्विषये कर्बर्थसार्वधातुक एवास्य प्रवृत्तिः सूचिता । श्नोङित्त्वादिति । 'सार्वधातुकमपित्' इत्यनेनेति भावः । शृणोतीति । तिपमाश्रिय श्नोगुणः । तसादीनां ङित्त्वात् श्नोर्न गुणः, तदाह शृणुत इति । शृणु अन्तीति स्थिते अन्तेः ङित्त्वात् नोर्गुणनिषेधे सति उवङि प्राप्त हुश्नुवोः। श्रोः प्रत्ययत्वात्तदन्तग्रहणम् । 'इणो यण' इत्यतो यण इत्यनुवर्तते, 'अचि श्नु-' इत्यतः अचीति । तस्य सार्वधातु विशेषणत्वात्तदादि. विधिः । 'एरनेकाचः-' इति सूत्रं एरितिवर्जमनुवर्तते । 'श्रोः सुपे' इत्यत ओरिति च षष्ठयन्तम् , तदाह जुहोतेरित्यादिना । असंयोगपूर्वस्येति तु उकारस्य विशेषणं न तु श्नुविशेषणम् । तेन आप्नुवन्तीत्यत्र यण् न । 'हुश्नुवोः' किम् ? योयुवति । अत्र युधातोर्यङलुकि 'अदभ्यस्तात्' इति झरदादेशे योयु अति इति स्थिते अनेकाजङ्गाप्रयोष्ट । श्रुवः शृ च । यद्ययं श्रुधातुः स्वादौ पठ्येत् तर्हि चकारो न कर्तव्य इति लाघवमित्याहुः । हुश्नुवोः । जुह्वति । सुन्वन्ति । हुश्नुवोः किम् , योयुवति । नोनुवति । सार्वधातुके किम् , जुहुवतुः, जुहुवुः । असंयोगपूर्वेति किम् , अक्ष्णुवन्ति । असंयोगपूर्वग्रहणमोर्विशेषणं न श्रुप्रत्ययस्य । तेन प्राप्नुवन्ति इत्यत्रापि यरिनषेधः सिध्यति। प्रत्ययविशेषणत्वे तु अणुवन्तीत्यत्रैव निषेधः स्यादिति भावः। स्यादेतत्-यङ्लुकरछान्दसत्वाद्योयुवतीत्यादौ प्रत्ययस्य 'छन्दस्तुभयथा' इत्यनेनार्धधातुकत्वाश्रयणे यणादेशो न भवेदिति किमनेन हुश्नुग्रहणेन । न च युवन्ति नुवन्ति इत्यत्रातिप्रसङ्गवारणार्थं तद्ग्रहणमिति वाच्यम् , अनेकाच इत्यस्यानुवर्तनेनोक्तदोषा. भावादिति चेत् । अत्राहुः-'दाधर्तिदर्धर्तिदर्धर्षिबोभूतु-' इति च्छन्दसि निपातनाद्भाषायां यङ्लुकि बोभवीतीलादौ 'भूसुवोः-' इति गुणनिषेधो न प्रवर्तते । अत एव भाषायामपि यङ्लुक् सिद्ध इति वक्ष्यमाणत्वात् । योयुवतीत्यादावतिप्रसङ्गवारणाय हुश्नुग्रहणं कर्तव्यमेवेति । हुश्नुग्रहणाज्ज्ञापकाद् भाषायामपि कचिद्यब्लुग्भवतीति भाष्यकाराः ।