________________
प्रकरणम् ४३ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ २१६
"
वार्ना । शीघ्रगतौ तु 'पाघ्राध्मा -' ( सू २३६० ) इति शिति धौरादेशः । धावति । ऋ ६३६ गतिप्रापणयोः । ऋच्छति । २३८३ ऋच्छत्यृताम् । ( ७-४ -११ ) तौदादिकस्य ऋच्छतेः ऋधातोः ऋतां च गुणः स्याल्लिटि । गलि प्राग्वदुपधावृद्धिः । आर भारतुः श्रारुः । २३८४ इडत्यर्तिव्ययतीनाम् । चङिति । तदाह एभ्य इति । ततश्च प्रकृते सार्षीदित्यत्र अञ् स्यादिति शङ्का सूचिता । तां परिहरति इह लुप्तेत्यादिना । इह अविधौ शास्तीत्यनेन लुप्तविकरणः शासिर्गृह्यते इति निर्विवादम् तस्य विकरणान्तराभावात् । एवं च तत्साहचर्यात् सृधातुः ऋधातुश्च जौहोत्यादिकौ श्लुविकरणावेव गृह्येते इत्यर्थः, लुप्तविकरणत्वसाम्यादिति भावः । तेनेति । लुप्तविकरणयोरेव ग्रहणेन भ्वादि • गणस्थयोः सृधातुऋधात्वोरङ् नेत्यर्थः । तदेवं सृधातोर्गतिसामान्यवृत्तेरुक्तानि रूपाणि । यदि शीघ्रगतौ सृधातुः, तदा तस्य विशेषमाह शीघ्रगतौ स्विति । धौरादेश इति । धौशब्दस्य धौरिति प्रथमान्तम् । धौ इत्यौकारान्त प्रदेश इत्यर्थः । 'पाघ्रा -' इति सूत्रे सतीति श्तिपा निर्देशः । लुप्तविकरण निर्देशस्तु श्रविवक्षित इति भावः । ‘सर्तेर्वेगितायां गतौ धावादेशः' इति वार्तिकमभिप्रेत्येदम् । धावतीति । शपि सृधातोध भावे आवादेशः । धावतु । अधावत् । धावेत् । ॠगतिप्रापगयोः । अनिट् । 'पाघ्राध्मा-' इति शिद्विषये ऋच्छादेशः, तदाह ऋच्छतीति । ननु ऋतुस् इति स्थिते द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषे 'श्रत श्रादेः' इति दीर्घे या ऋतुस् इति स्थिते 'असंयोगात् -' इति कित्त्वादुत्तरखण्डस्य गुणाभावे यां बाधित्वा परत्वादाद् गुणे अरतुरिति स्यादित्यतस्तत्र गुणविधानमाह ऋच्छत्यृताम् । 'दयतेर्दिगि] लिटि' इत्यतो लिटीति 'ऋतश्च संयोगादेर्गुणः' इत्यतो गुण इति चानुवर्तते । ऋच्छति ऋ ऋद् एषां द्वन्द्वाद्बहुवचनम् । बहुवचनादेव ऋकार प्रश्लेषो गम्यते । प्रश्लिष्टेन च ऋकारेण ऋधातुरेव गृह्यते । ऋवर्णान्तधातुग्रहणे 'ऋतश्च संयोगादेर्गुणः' इत्यस्य वैयर्थ्यात् । 'ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु' इति तौदादिकस्य ऋच्छतीति शितपा निर्देशः । भौवादिकस्य धातोस्तु प्रहरेगनैव सिद्धेः, तदाद तौदादिकस्य ऋच्छतेरित्यादिना । किदर्थमपीदं सूत्रं परत्वादकिय पि भवति । गलि प्राग्वदिति । 'ह्र कौटिल्ये' इत्यत्र उक्तया रीत्या कित्सु चरितार्थोऽप्ययं गुणः 'अचो णिति' इति वृद्धयपेक्षया परत्वाद् गल्यपि भवति । ततो रपरत्वे उपधावृद्धिरित्यर्थः । श्रारेति । ऋधातोर्लिटि तिपो गलि द्वित्वे उरदत्त्वे हलादिशेषे 'त प्रादेः' इति दीर्घे उत्तरखण्डस्य वृद्धौ रपरत्वे सवर्णदीर्घ इति शासेरेवेत्याहुः । असरत् । श्रशिषत् । आरत् । प्राग्वदिति । किदर्थमारब्धोऽपि