________________
प्रकरणम् ४३ ] बालमनोरमा तत्त्वबोधिनीसहिता। [२१७ इति वेद । सस्वरिथ, सस्वयं । वमयोस्तु । २३८१ श्रयकः किति । (७-२-११) श्रिम एकाच उगन्ताध परयोनिस्कितोरिएन स्यात् । परमपि स्वरस्यादिविकल्पं बाधित्वा पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यादनेन निषेधे प्रासे क्रादिनियमा. स्वृ शब्दोपतापयोरिति । अयमप्यनिट् । स्वरति । लिटि तु कित्यपि गुणः । णलि तु कृते गुणे रपरत्वे उपधावृद्धिः । सस्वार सस्वरतुः सस्वरुः । थलि तु क्रादिनियमप्राप्तस्य इटः 'अचस्तास्वत्-' इति 'ऋतो भारद्वाजस्य' इति च नित्यनिषेधे प्राप्ते आह स्वरतिसूतीति वेडिति । सखरिथ, सस्वर्थेति । सस्वरथुः सस्वर । सस्वार, सस्वर । इत्यपि ज्ञेयम् । वमयोस्त्विति । क्रादिनियमानित्यमिडित्यन्वयः। अत्र इरिनषेधं शङ्कितुमाह श्रयकः क्विति । श्रिश्च उक् चेति समाहारद्वन्द्वात् षष्ठी। उक् प्रत्याहारः। 'अङ्गस्य' इत्यधिकृतं पञ्चम्या विपरिणतम् उका विशेष्यते । तदन्तविधिः। 'एकाच उपदेश-' इत्यत एकाच इत्यनुवृत्तम् इगन्तेऽन्वेति । 'नेड्वशि कृति' इत्यतो नेडिति । कितीति सप्तमी षष्ठयर्थे । ग् च कच को तो इतौ यस्येति विग्रहः । गकारस्य चत्वेन निर्देशः, तदाह श्रिज एकाच इत्यादिना। 'गकारप्रश्लेषः' किम् ? भूष्णुः । 'ग्लाजिस्थश्च गस्नुः' इति चकाराद् भूधातोः गस्नुः । तस्य गित्त्वादिड् न । कित्त्वे तु स्थास्नुरित्यत्र 'घुमास्था-' इति ईत् स्यात् । इएन स्यादित्यनन्तरम् अनन निषेधे प्राप्त इत्यन्वयः । नन्वियं शङ्का न युज्यते, 'श्रयकः किति' इति निषेधं बाधित्वा परत्वात् 'स्वरतिसूति-' इति विकल्पस्य प्राप्तरित्यत आह परमपीत्यादि सामर्थ्यादित्यन्तम् । पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यात्परमपि स्वरत्यादिविकल्पं बाधित्वा अनेन निषेधे प्राप्त इत्यन्वयः । 'आर्धधातुकस्येट- इत्यादिविधिकाण्डात्प्रागेव 'नेड्वशि कृति' इत्यादिप्रतिषेधकाएडारम्भसामर्थ्यात् 'स्वरति-' इति विकल्पोऽप्यनेन बाध्यत इत्यर्थः । परमपीत्यादिः आर्धधातुके किम् , इययात् । स्वृ । उपतापो रोगः । श्रयुकः किति । 'एकाच उपदेशे-' इत्यत एकाच इत्यनुवर्तते, तच्च उको विशेषणमित्याह एकाच उगन्तादिति । श्रितः । श्रितवान् । श्रित्वा । भूतः। भूत्वा। भूतिः। गित्युदाहरणम्-भूष्णुः। 'ग्लाजिस्थश्व-' इति गस्नुः। स च गिद्भवति न कित् , स्थास्नुरित्यत्र 'घुमास्था-' इतीत्वप्रसङ्गात् । एकाच इति किम् , जागरितः । जागरितवान् । ऊोतेस्तु नुवद्भावेन ऊर्गुतुः, ऊर्गुतवान् इति सिध्यति । उगन्तात्किम् , शयितः, शयितवान् । पुरस्तादित्यादि । 'आर्धधातुकस्येवलादेः' इत्यादिविधिकाण्डात्प्रागेव 'नेड्वशि कृति' इत्यादिप्रतिषेधकाण्डारम्भसामर्थ्यादित्यर्थः । निषेधे प्राप्त इति । स्वृतः ।