________________
२१६ ] सिद्धान्तकौमुदी।
[भ्वादि. रपरत्वम् । उपधावृद्धिः । जह्वार जहरतुः जहरुः । जह्वर्थ । हर्ता । 'ऋद्धनोः स्थे' (स् २३६६) हरिष्यति । २३८० गुणोऽर्तिसंयोगाद्योः। (७-४-२६) अर्तेः संयोगादेवदन्तस्य च गुणः स्याद्यकि यादावार्धधातुके लिङि च । ह्वर्यात् । अह्वार्षीत् । प्रह्लाष्टीम् । स्वृ १३२ शब्दोपतापयोः । 'स्वरतिसूति-' (सू २२७६) लिटि' इत्यतः तदनुवृत्तेरिति भावः । ननु तिप्सिप्मिप्सु सार्वधातुकार्धधातुकयोरित्येव गुणे सिद्ध किमर्थमिदमित्यत आह किदर्थमपीदमिति। अतुसादिकिदर्थ णलायकिदर्थ चेत्यर्थः । ननु अस्य गुणस्य अतुसादिषु चरितार्थत्वाद् णलि 'अचो णिति' इति वृद्धिप्रसङ्गात्कथं णलि अयं गुण इत्यत आह परत्वारणल्यपि भवतीति । 'अचो मिणति' इति वृद्धधपेक्षया अस्य गुणस्य परत्वादित्यर्थः । तर्हि जह्वार इति कथमित्यत
आह उपधावृद्धिरिति । 'श्रत उपधायाः' इत्यनेनेति शेषः । जह्वथैति । क्रादिनियमप्राप्तस्य इटः 'अचस्तास्वत्-' इति 'ऋतो भारद्वाजस्य' इति च निषेधादिति भावः । जह्वरथुः जह्वर । जह्वार, जह्वर जह्वरिव जह्वरिम । क्रादिनियमादित् । ह्वरतु । अह्वरत् । हरेत् । आशीर्लिकि ह यात् इति स्थिते कित्त्वाद्गणनिषेधे प्रागुणोऽति । भौवादिको जौहोत्यादिकश्च ऋधातुः अत्यनेन गृह्यते । लुका निर्देशस्तु न विवक्षितः । 'अङ्गस्य' इत्यधिकृतम् । 'रीतः' इत्यत ऋत इत्यनुवर्तते । तच्च अङ्गविशेषणम् , तदन्तविधिः, ऋदन्तस्यास्येति लभ्यते। संयोगाद्योरित्यपि तद्विशेषणम् । ‘अकृत्सार्वधातुकयो:-' इत्यतः असार्वधातुकग्रहणमनुवर्तते । आर्धधातुके इति लभ्यते। 'रिङ् शयग्लिक्षु' इत्यतो यकि लिङीति च लभ्यते । 'अयख्यि क्लिति' इत्यतो यीति सप्तम्यन्तमनुवर्तते । आर्धधातुकविशेषणत्वात्तदादिविधिः, तदाह अतॆरित्यादिना । तथा च ह यात् इति स्थिते गुणे रपरत्वे रूपमाह ह्वर्यादिति । अह्वार्षीदिति । सिचि वृद्धिः, रपरत्वं षत्वम् । अवरिष्यत् । तु नादर्तव्यम् । न च स्वविषये वृद्धिर्बाधिकेति फलितार्थकथनपरतया तदुक्तिः संगच्छत इति वाच्यम् । परत्वेन गुणस्यैव न्याय्यत्वादिति भावः । गुणोऽर्ति । अतीति भ्वादिह्वाद्योग्रहणम् । लुका निर्देशस्तु सौत्रः। ऋग्रहणे कर्तव्ये श्तिपा निर्देशो यङ्लुङ्. निवृत्त्यर्थः । 'री ऋतः' इत्यस्मादृत इति वर्तते, तच्च संयोगादित्वेन विशेष्यते, तदाह संयोगादेरिति । अतिसंयोगाद्यो र इत्यकारे विधेये गुणग्रहणं चिन्त्यप्रयोजनम् । 'अयक् यि क्छिति' इति सूत्राद् यीत्यनुवर्तते। तच्च लिडो विशेषणम् । 'रिङ् शयग्लिक्षु' इति सूत्राद्यग्ग्रहणस्य लिमहणस्य चानुवर्तनादित्यभिप्रेत्याह यकि यादाविति । श्रार्धधातुके इत्येतद् 'अकृत्सार्वधातुकयो:-' इत्यनुवृत्तिपालोचनया फलितार्यकथनमिति ज्ञेयम्। संयोगादेरिति किम् , क्रियात् । यादीति किम् , संस्कृषीष्ट