________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२१५ गतिनिवृत्तौ । तिष्ठति । 'स्थादिष्वभ्यासेन-' (सू २२७७ ) इति षत्वम् , अधितष्ठौ । 'उपसर्गात्-' (सू २२७० ) इति षत्वम् , अधिष्ठाता। स्थयात् । मा ६२६ अभ्यासे । मनति । दाण ९३० दाने । प्रणियच्छति । देयात् । अदात् । ह्र ६३१ कौटिल्ये । हरति । २३७६ ऋतश्च संयोगादेर्गुणः । (७-४-१०) ऋदन्तस्य संयोगादेरजस्य गुणः स्यालिटि । किदर्थमपीदं परत्वाएणल्यपि भवति । तदाह धमतीति । दध्मौ दध्मतुः दध्मुः । दध्मिथ, दध्माथ दध्मथुः दध्म । दध्मौ दध्मिव दध्मिम । ध्माता । ध्मास्यति । धमतु । अधमत । धमेत् । ध्मायात् , ध्मेयात् । अध्मासीत् । अध्मास्यत् । ष्टाधातुः षोपदेशः कृतष्टुत्वनिर्देशः। शिद्विषये 'पाघ्रा-' इति तिष्ठादेशः, तदाह तिष्ठतीति । तस्थौ। अधितष्ठावित्यत्र इणकवर्गाभ्यां परत्वा. भावेऽपि षत्वमाह स्थादिष्विति । तस्थतुः तस्थुः । तस्थिथ, तस्थाथ तस्थथुः तस्थ। तस्थौ तस्थिव तस्थिम । स्थाता। अधिष्ठातेत्यत्र 'सात्पदाद्योः' इति षत्वनिषेधमाशङ्कयाह उपसर्गादिति षत्वमिति । स्थास्यति । तिष्ठतु । अतिष्ठत् । तिष्ठेत् । पाशीलिङि संयोगादित्वेऽपि घुमास्थादेरन्यत्वाभावादेत्त्वविकल्पो न, किंतु 'एलिङि' इति नित्यमेव एल्वम् , तदाह स्थेयादिति । 'गातिस्था-' इति सिचो लुक् । अस्थात् । अस्थास्यत् । म्रा अभ्यास इति । अयमप्यनिट । 'पाघ्रा-' इति शिद्विषये मनादेशः तदाह मनतीति । मनौ मन्नतुः मम्नुः । मनिथ, मनाथ मनथुः मन । मम्रो मनिव मनिम । म्राता। नास्यति । मनतु । श्रमनत् । मनेत् । मायात् , नेयात् , अनासीत् । अम्नास्यत्। दाण दान इति । अयमप्यनिट । 'पाघ्रा-' इति शिद्विषये यच्छादेशः । प्रणियच्छतीति । 'नेर्गद-' इति णत्वम् । ददौ ददतुः ददुः । ददिथ, ददाथ ददथुः दद । ददौ ददिव ददिम । दाता । दास्यति । यच्छतु । अयच्छत् । यच्छेत् । श्राशीलिङि 'एलिङि' इत्येत्त्वं मत्वा आह देयादिति । 'गातिस्था-' इति सिचो लुकं मत्वा आह अदादिति । ह कौटिल्य इति । अयमप्यनिट् । हरतीति । शपि गुणे रपरत्वम् । ऋतश्च । लिटीति । 'दयतेर्दिगि वायुरिह गृह्यते । तेन शङ्ख धमतीतिवद् मृदङ्ग धमतीति प्रयोगो नेत्याहुः । अग्निसंयोगे सुवर्णं धमति । अमिना संयुनतीत्यर्थः । स्थयादिति । ‘एलिङि' इति नित्यमत्वम् । लुङि अस्थात् । ना अभ्यासे । मनति विद्यामभ्यस्यतीत्यर्थः । मनौ। अनासीत् । अदादिति । 'गतिस्था-' इति सिचो लुक् । ऋतश्च । संयोगादेः किम् , चक्रतुः । चक्रुः । तपर करणं स्पष्टार्थम् । स्तृञ् इत्यादेलिटि तस्तरतुरित्यादौ 'ऋच्छत्य॒ताम्' इति गुणस्य जायमानत्वात् । चकारो मन्दप्रयोजनः । 'दयतेर्दिगिलिटि' इत्यतोऽनुवर्तनादाह गुणः स्यालिटीति । अवृद्धिनिमित्ते लिटीति प्राचो व्याख्यानं