________________
२१४ ] सिद्धान्तकौमुदी। [वादिस्वायति । ष्णै १२३ वेष्टने । शोभायां च इत्येके। स्नायति । दैप् १२४ शोधने । दायति । अधुत्वादेत्त्वसिज्लुको न । दायात् । भदासीत् । पा १२१ पाने। 'पाघ्राध्मा-' (सू २३६०) इति पिबादेशः । तस्यादन्तस्वानोपधागुणः । पिबति । पेयात् । अपात् । घ्रा १२६ गन्धोपादाने । जिघ्रति । घ्रायात् , घेयात् । अघ्रात् , अघ्रासीत् । ध्मा ९२७ शब्दाग्निसंयोगयोः। धमति । ष्ठा १२८ अाह घमास्थेतीत्त्वमित्यादिना । पारूपस्येति । उदाहृतसूत्रत्रये लक्षणप्रतिपदोतपरिभाषया आदन्तत्वेन उपदिष्टस्यैव पाधातोर्ग्रहणम् , नतु पैधातोः कृतात्व. स्येति भावः । एवं च प्रकृते पैधातोराशीलिङि पायादित्येव रूपम् लुङि सगिटोः अपासीत् , अपासिष्टामित्येव रूपम् । ष्टै वेष्टन इति । षोपदेशोऽयम् । कृतष्टुत्वनिर्देशः । सत्वे कृते ष्टुत्वनिवृत्तिः, तदाह स्तायतीति । धातुरपि षोपदेशः कृतष्टुत्वनिर्देशः । सत्वे कृते ष्टुत्वनिवृत्तिः, तदाह स्नायतीति । दैप शोधने । अघुत्वादिति । घुसंज्ञाविधौ दाब्दैपौ विनेत्युक्तरिति भावः । पा पाने पिबादेश इति । शिद्विषय इति शेषः । तस्येति । पिबादेशस्य अदन्तत्व द् न लघूपधगुण इति भाष्ये स्पष्टम् । अनिडयम् । पपौ पपतुः पपुः। भारद्वाजनियमात् थलि वेट्पपिथ, पपाथ पपथुः पप । पपौ पपिव पपिम । क्रादिनियमादिद। पाता । पास्यति । पिबतु । अपिबत् । पिबेत् । प्राशीलिडि 'एलिङि' इत्येत्त्वमभिप्रेत्याह पेयादिति । 'गातिस्था-' इति सिचो लुगित्यभिप्रेत्याह अपादिति । अप ताम् अपुः । अपाः अपातम् अपात । अपाम् अपाव अपाम । अपास्यत् । घ्रा गन्धोपादाने । 'पाघ्राध्मा-' इति शिद्विषये जिघ्रादेशः, तदाह जिघ्रतीति । अनिडयम् । जघ्रौ जघ्रतुः जघ्रः भारद्वाजनियमात् थलि वेट-जघ्रिथ, जघ्राथ जघ्रथुः जघ्र । जघ्रौ जघ्रिव जघ्रिम । क्रादिनियमादिट् । घ्राता । घ्रास्यति । जिघ्रतु । अजिघ्रत् । जिभ्रेत् । श्राशीलिङि 'वाऽन्यस्य संयोगादेः' इत्येत्त्वविकल्पं मत्वा प्राह घ्रायात, यादिति। 'विभाषा घ्राधेट्-' इति सिचो वा लुक् । लुगभावपक्षे आदन्तत्वात्सगिटौ, तदाह अघ्रात् , अघ्रासीदिति । धमाधातुरनिट् । 'पाघ्राध्मा-' इति शिद्विषये धमादेशः, त्रिषु' इत्यमरः । अदन्तत्वादिति । केचित्तु अनवृत्तपरिभाषयापि गुणाभावं समर्थयन्ति । घ्रा गन्धोपादाने। गन्धोपादानं गन्धग्रहणम् । नन्वेवं कर्मणो धात्वर्थेनोपसंग्रहादकर्मकत्वेन 'जिघ्रति कुसुमुम्' इत्यादिप्रयोगो न सिध्येदिति चेत् । अत्राहुःयद्धात्वर्थेन कर्तृनिष्ठकर्मण उपसंग्रहस्तस्यैव धातोरकर्मकत्वं नान्यस्य । भवति हि जीवति नृत्यतीत्यादेरकर्मकत्वम् । तदर्थोपसंगृहीतकर्मणः कर्तृनिष्ठत्वात् । घ्राधातोः कर्मणस्त्वतथात्वानाकर्मकतेति । ध्मा शब्दामिसंयोगयोः । शब्दशब्देन तदनुकूलो