________________
प्रकरणम् ४३] बालमनोरमा तत्त्वबोधिनीसहिता। [२१३ त्यत्र षत्वम् । खै ११२ खदने । तै ११३ जै ११४ षै ६१५ क्षये । क्षायति । जजौ । ससौ । साता । 'घुमास्था-' (सू २४६२) इत्यत्र 'विभाषा घ्राधेट्-' (सू २३७६ ) इत्यत्र च स्यतेरेव ग्रहणं न स्वस्य । तेन एत्त्वसिज्लुको न । सायात् । असासीत् । के ११६ गै ११७ शब्दे । गेयात् । अगासीत् । शै ६१८ त्रै १११ पाके । पै १२० नोवै १२१ शोषणे । पायात् । अपासीत् । 'घुमास्था-' (सू २४६२) इतीत्वम्, तदपवाद 'एलिडि' (सू २३७४) इत्येवम् , 'गातिस्था-' (सू २२२३ ) इति सिज्लुक् च न । पारूपस्य लाक्षणिकत्वात् । ष्टै ६२२ वेष्टने । सकारत्वाच्च षत्वे तिष्टयासतीति रूपम् । स्वाभाविकसकारादित्वे त्वादेशसकारादिस्वाभावात् षत्वं न स्यादिति भावः । अतिष्ट्यपदिति । टथैधातोः कृतसत्वात् गौ आत्त्वे 'अतिही-' इति पुकि स्त्यापि इति एयन्ताद् लुङि अडागमे तिपि 'इतश्च' इति इकारलोपे 'णिश्रिद्रसभ्यः-' इति च्लेश्चति 'णेरनिटि' इति णिलोपे 'णौ चङ्युपधायाः-' इति ह्रस्वे 'चरि' इति स्त्यप् इत्यस्य द्वित्वे 'शपूर्वाः-' इति सकारयकारपकाराणां निवृत्तौ सत्यां 'सन्यतः' इति इत्वे इणः परत्वादादेशसकारत्वाच्च सस्य षत्वे तस्य ष्टुत्वे अतिष्ट्यपदिति रूपम् । खाभाविकसकारत्वे त्वादेशसकारत्वाभावात् षत्वं न स्यादिति भावः। जजौ ससाविति । जैधातोः षैधातोश्च णलि आत्त्वे द्वित्वादौ वृद्धिरिति भावः। ननु ‘एलिङि' इत्यत्र 'घुमास्थागापाजहातिसाम्-' इत्यनुवृत्त्या सैधातोराशीर्लिङि सायादित्यत्र एत्त्वं स्यात् । तथा लुङि सगिटोः असासीत् असासिष्टामित्येव इष्यते । तत्र 'विभाषा घ्राधेट्शाच्छासः' इति सिचः पाक्षिके लुकि असात् असातामित्यपि प्रसज्येतेत्यत आह घुमास्थेत्यत्रेत्यादि । स्यतेरिति । 'षो अन्तकर्मणि' इति श्यन्विकरणस्येत्यर्थः । अत्र व्याख्यानमेव शरणम् । 'विभाषा घ्राधेट्-' इत्यत्र श्यन्विकरणाभ्यां साहचर्याच्च । पै ओवै शोषणे । पायति । वायति । 'भोदितश्च' इति निष्टानत्वार्थमोदित्त्वम् । ननु पैधातोः कर्मणि लटि यकि आत्त्वे पायते इत्यत्र 'घुमास्थागापाजहातिसा हलि' इति ईत्त्वं स्यात् । तथा आशीलिङि पायाद् इत्यत्र 'एलिङि' इति एत्त्वं स्यात् , तत्रापि 'घुमास्थागापाजहातिसाम्-' इत्यनुवृत्तेः । तथा लुङि अपासीदित्यत्र 'गातिस्था-' इति सिचो लुकि 'यमरम-' इति इटः अभावातत्संनियोगशिष्टः सगपि न स्यादित्यत तीनामिति श्यना निर्देशाचेति भावः । विभाषा घेति । श्यन्विकरणाभ्यां शाच्छाभ्यां साहचर्यादिति भावः । एवं शाच्छासेति युग्विधावपि स्यतेरेव ग्रहणमिति बोध्यम् । तेनास्य धातोः 'अर्तिह्री-' इति पुगेव । सापयति । पै ओवै । पायति । वायति । शुष्यतीत्यर्थः । 'ओदितश्च' इति निष्ठानत्वम् । वानम् । 'शुष्के वानमुभे