________________
२१२]
सिद्धान्तकौमुदी। [ भ्वादिग्लायति । जग्लो । जग्लिथ, जग्लाथ । २३७८ वाऽन्यस्य संयोगादेः । (६-४-६८) घुमास्थादेरन्यस्य संयोगादेर्धातोरात एवं वा स्यादार्धधातुके किति लिङि । ग्लायात् , ग्यात् । अग्लासीत् । म्लायति । चै १०५ न्यक्करणे । न्यक्करणं तिरस्कारः । = १०६ स्वमे । धै १०७ तृप्तौ। ध्यै १०८ चिन्तायाम् । रे १०६ शब्दे । स्त्यै ११० ष्टयै १११ शब्दसंघातयोः । स्त्यायति । पोपदेशस्यापि सस्वे कृते रूपं तुल्यम् । पोपदेशफलं तु तिष्टयासति प्रतिष्टयपदितत्तद्धातुषु स्पष्टीभविष्यति । अधास्यत् । ग्लै म्लै हर्षक्षये । धातुक्षय इति । बलक्षय इत्यर्थः । श्रनिटाविमौ । ग्लायतीति । शपि आयादशः । शिद्विषयत्वादात्त्वं न । जग्लाविति । णलि आत्त्वे 'आत श्री णलः' इति श्रीभावे वृद्धिरिति भावः । अतुसादौ द्वित्वे कृते अातो लोपः। जग्लतुः जग्लुः । भारद्वाजनियमात्थलि वेडित्याह जग्लिथ, जग्लाथेति । इटपक्षे श्राल्लोपः । जग्लथुः जग्ल । जग्लौ जग्लिव जग्लिम । ग्लाता । ग्लास्यति । ग्लायतु । अग्लायत् । ग्लायेत् । श्राशीलिङि श्रात्त्वे कृते ग्लायात् इति स्थिते वाऽन्यस्य । 'आर्धधातुके' इत्यधिकृतम् । ‘एलिलि' इत्यनुवर्तते । एरिति प्रथमान्तम् । 'अातो लोप इटि च' इत्यत श्रात इत्यनुवर्तते । कस्मादन्यस्येत्यपेक्षायां 'धुमास्थागापाजहातिसां हलि' इति प्रकृतत्वात्तेभ्योऽन्यस्येति लभ्यते, तदाह घुमास्थादेरित्यादिना । कितीति । 'दीडो युडचि क्ङिति' इत्यतः तदनुवृत्तरिति भावः । कितीति तु नानुवर्तते, लिडार्धधातुकस्य ङित्त्वासंभवात् । अग्लासीदिति । यमरमेत्यादन्तत्वात् सगिटौ। अग्लासिष्टाम् अग्लासिषुरित्यादि । अग्लास्यत् । म्लायतीति । ग्लैधातोरिव रूपाणीति भावः । द्यै न्यक्करण इति । यकारमध्योऽयम् । इत प्रारभ्य ऐकारान्तानां संयोगादीनां ग्लैवदेव रूपाणि प्रत्येतव्यानि । 'रै शब्दे' इत्यादीनां तु असं. योगादीनाम् आशीलिङि 'वाऽन्यस्य संयोगादेः' इत्येत्त्वं न भवति, रायादित्यादि रूपमिति विशेषः । स्त्यै एयै इति । षोपदेशेषु स्त्याधातोः पर्युदासादाद्य न षोपदेशः। द्वितीयस्तु षोपदेशः । तकारस्य ष्टुत्वसंपन्नटकारनिर्देशः । सत्वे कृते इति । 'धात्वादेः-' इति षस्य सकारे सति निमित्तापायात् ष्टुत्वनिवृत्तिरिति भावः । तिष्टयासतीति । ष्ठथैधातोः कृतसत्वात् सनि आत्त्वे स्त्या स इति सन्नन्ताल्लटि तिपि शपि 'सन्यडोः' इति द्वित्त्वे 'शपूर्वाः खयः' इति सकारयकारनिवृत्ती तास्त्यासति इति स्थिते अभ्यासहखे 'सन्यतः' इति इत्वे सकारस्य इणः परत्वादादेशभारम् । अरंस्त । अरंसाताम् । वान्यस्य । अन्यस्य किम् , स्थेयात् । ये न्यक्करणे। द्यायति । दद्यौ । अद्यासीत् । घुमास्थेत्यति । व्याख्यानात्तन्त्रान्तरे जहातिस्य.