________________
प्रकरणम् ४३ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ २११
२३७६
'चङि' ( सू २३१५ ) इति द्विस्वम् । अदधत् श्रदधताम् विभाषा प्राधेट् शाच्छासः । ( २-४-७८ ) एम्यः सिचो लुग्वा स्यात्परस्मैपदे परे । अधात् अधाताम् अधुः । २३७७ यमरमनमातां सक्च । (७-२-७३) एषां सक् स्यादेभ्यः सिच इट् च परस्मैपदेषु । अधासीत् श्रधासिष्टाम् अधासिषुः | ग्लै १०३ ग्लै ६०४ हर्षचये । हर्षक्षयो धातुतयः ।
अदधदिति । चङि द्वित्वे आलोप इति भावः । श्रदधताम् अदधन् । अदधः अदधतम् अदधत । श्रदधम् अदधाव दधाम । चङभावपचे विशेषमाह विभाषा घ्रा । ' यक्षत्रियार्ष -' इत्यतो लुगित्यनुवर्तते । 'गातिस्था-' इत्यतः सिचः परस्मैपदेष्विति, तदाह एभ्य इति । 'घ्रा गन्धोपादाने' 'धेट् पाने' 'शो तनूकरणे' 'छो छेदने ' ' षो अन्तकर्मणि' एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् । शोप्रभृतीनां कृतात्त्वानां निर्देशः । घेटः 'गातिस्थाघुपा -' इति नित्यं प्राप्त अन्येषामप्राप्ते वचनम् । अधुरिति । 'उस्यपदान्तात्' इति पररूपम् । अधाः अधातम् अधात । अधाम् अधाव अधाम । सिचो लुगभावपचे आह यमरम । यम, रम, नम, श्रात्, एषां द्वन्द्वात्षष्टीबहुवचनम् । श्रादित्यनेन दन्तं गृह्यते, तदाह एषां सक् स्यादिति । सकि ककार इत्, अकार उच्चारणार्थः । कित्त्वादन्तावयवः । चकारेण 'इडत्त्यर्ति-' इत्यत इडिति 'स्तुसुधूञ्भ्यः -' इत्यतः परस्मैपदेष्विति चानुकृष्यते । 'अञ्जः सिचि' इत्यतः सिचीति च । तच्च षष्ठया विपरिणम्यते, तदाह एभ्यः सिच इट् चेति । अधासीदिति । धातोः सगागमः । सिच इद्, ईट्, 'इट ईटि' इति सिज्लोपः । अधासिष्टामिति । श्रपृक्तत्वाभावादी भावान्न सिज्लोपः । सस्य षत्वे तकारस्य ष्टुत्वेन टः । अधासिषुरिति । श्रधासीः अधासिष्टम् अधासिष्ट । अधासिषम् अधासिष्व अधासिष्म । यद्यपि प्रधासीदित्यत्र सगिटोर्विधिर्व्यर्थ एव, तथापि अधासिष्टामित्याद्यर्थम् श्रतः सगिड्विधानम् । यमादीनां अयंसत्यादौ हलन्तलक्षणवृद्धेरभावार्थम्, अयंसिष्टामित्याद्यर्थं च । तदेतत्
1
च, तदाह चलेश्वङ् वेत्यादि । श्रदधदिति । चङि श्रतो लोपः । श्वयतेरुदाहरणमशिश्वियत् । विभाषा घ्रा । इह 'रायक्षत्रियार्ष -' इत्यतो लुगनुवर्तते, 'गातिस्था-' इत्यतः सिचः परस्मैपदेष्विति च तदाह सिचो लुग्वेत्यादि । परस्मैपदे किम्, व्यत्यास्त । अधुरिति । 'प्रातः' इति झेर्जुस् । यमरमनमातां । इह ‘आर्धधातुकस्येड्वलादेः' इतीङनुवर्तते । 'अञ्जेः सिचि' इत्यतः सिज्ग्रहणम, 'स्तुसुधूञ्भ्यः' इत्यतः परस्मैपदग्रहणं च तदाह एभ्यः सिच इडित्यादि । श्रयंसीत् । असिष्टाम् । व्यरंसीत् । व्यरंसिष्टाम् । अनंसीत् । अनंसिष्टाम् । परस्मैपदेषु किम्, उदायंस्त
.