________________
२१० ]
सिद्धान्तकौमुदी। [ भ्वादि. विना । २३७४ एलिङि । (६-४-६७ ) घुसंज्ञानां मास्थादीनां चैत्वं स्थादार्धधातुके किति लिङि । धेयात् धेयास्ताम् धेयासुः । २३७५ विभाषा धेश्व्योः । (३-१-४६) प्राभ्यां ब्लेश्वङ्वा स्यात्कर्तृवाचिनि लुङि परे । 'दो अवखण्डने' 'दे रक्षणे' इत्यनयोः लाक्षणिकयोश्च, त्यनेन स्वाभाविकाकारान्तस्य 'डु धाञ् धारणपोषणयोः' इत्यस्य, लाक्षणिकस्य 'धेट पाने' इत्यस्य च ग्रहणम् । 'गामादाग्रहणे ध्वविशेषः' इति परिभाषाबलात् तत्र दाग्रहणेन धारूपस्यापि प्रहणाच । अत एव 'दो दद् घोः' इत्यत्र धेरिनवृत्त्यर्थ दाग्रहणमर्थवत् , दधाते हिंभावविधानादेव निवृत्तिसिद्धः, तदाह दारूपा धारूपाश्चेति । एलिङि। एरिति प्रथमान्तम् । 'आर्धधातुके' इत्यधिकृतम् । घुमास्थागापाजहातिसाम् इत्यनुवर्तते । घु मा स्था गा पा जहाति सा एषां द्वन्द्वात् षष्ठीबहुचनम् , तदाह घुसंशानां मास्थादीनामिति । किति लिङीति । 'दीडो युट्-' इत्यतः कितीत्यनुवृत्तरिति भावः । कितीति नानुवर्तते । लिङार्धधातुकस्य ङित्त्वासंभवात् । लुङि च्लेः सिचि प्राप्त विभाषा धेट् । 'च्लि लुङि' इत्यनुवर्तते। 'णिश्रिद्रुसभ्यः-' इत्यतः कर्तरि चङिति च, तदाह प्राभ्यामिति । धेट् वि आभ्यामित्यर्थः । दाने। दाण दाने। दो अवखण्डने । देङ् रक्षणे। धारूपौ तु द्वौ। डुधाञ् धारणपोषणयोः। धेट पाने । अनुबन्धानामनेकान्तत्वाद् ‘आदेच उपदेश-' इत्य त्वे दोदेधेटामनुकरणे दाधारूपत्वमस्ति । एवं च दाश्च दाश्च दाश्च दाः । धाश्च धाश्च धौ । दाश्च धौ च दाधा इति विग्रहः । दाप्दैपी विनेति । दाप् लवने दैप् शोधने एतद्भिन्ना इत्यर्थः । दैपः पित्त्वमिह प्रतिषेधार्थ न त्वनुदात्तार्थम् । 'अनुदात्तौ सुप्पित्तौ' इति प्रत्ययस्यैव पितोऽनुदात्तत्वात् । न च दैपो लाक्षिणकत्वान्नास्य प्रतिषेध इति शङ्कयम् , पित्करणस्यानर्थक्यप्रसङ्गात् । इदमेव दैपः पित्त्वं 'गामादाग्रहणेष्वविशेषः' इति परिभाषाया ज्ञापकमित्याहुः । अदाविति किम् , दातं बर्हिः । लूनमित्यर्थः । इह 'दो दद्धोः' इति दद्भावो न । अवदातं मुखम् । शुद्धमित्यर्थः । इह तु अच उपसर्गात्-' इति तादेशो न । एलिङि । मास्थादीनामिति । मास्थागापाजहातिसामित्यर्थः माङ् माने । गामादाग्रहणेष्वविशेषेऽपि माङमेडौ नेह गृह्यते, तिढि कित्त्वासंभवात् । गतिनिवृत्तौ । गै शब्दे । गाङ् गतौ इति तु न गृह्यते, लिछि कित्त्यासंभवादेव । पा पाने । ओहाक् त्यागे । षोऽन्तकर्मणि । देयात् । स्थेयात् । गेयात् । पेयात् । हेयात् । अवसेयात् । आर्धधातुके किम् , मायात् । मायाताम् । मायुः । कितीति किम् , दासीष्ट । इह 'दीडो युडचि-' इत्यतः विडतीत्यनुवर्तमानेऽपि प्रकृतोपयोगितया कितीत्यस्यैवानुवृत्तिः कृता । विभाषा धेट् । 'च्लि लुङि' इत्यनुवर्तते 'णिश्रि-' इत्यस्मात्कर्तरीति