________________
प्रकरणम् ४३] मनोरमा तत्त्वबोधिनीसहिता। [२०६ देशः स्यात् । दधौ । २३७२ आतो लोप इटि च । (६-४-६४) अजाद्योरार्धधातुकयोः विदिटोः परयोरातो लोपः स्यात् । द्वित्वात्परत्वासोपे प्राप्ते 'द्विर्वचनेऽचि' (सू २२४३) इति निषेधः । द्वित्वे कृते पालोपः । दधतुः दधुः । दधिथ, दधाथ । दधिव दधिम । धाता । २३७३ दाधा व्वदाप् । (१-१-२०) दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ णल औत्वे वृद्धौ रूपमाह दधाविति । दधा अतुसिति स्थिते आतो लोपः। 'आर्धधातुके' इत्यधिकृतम् । 'दीगो युट-' इत्यतः अचि विडतीति चानुवर्तते । अचीत्यार्धधातुकविशेषणत्वात्तदादिविधिः। क्ङिति अजाद्यार्धधातुके इटि च आतो लोप इति लभ्यते । फलितमाह अजाद्योरिति । इट आर्धधातुकत्वं तु तदवय. वत्वाद्बोध्यम् । क्तिीति च इटो न विशेषणम्, इड्ग्रहणसामर्थ्यात् । इडित्यनेन उत्तमपुरुषैकवचनम् इडागमच गृह्यत । 'अजाद्योः' किम् ? ग्लैधातोः कर्मणि लटि यकि ग्लायते । 'आर्धधातुकयोः' किम् ? यान्ति वान्ति । दधौ इत्यत्र तु क्ङित्त्वाभावान्नाल्लोपः । सति तस्मिन् श्रौत्वं न स्यात् । ननु धा अतुस् इति स्थिते द्वित्वात्परत्वादाल्लोपे सति एकाच्वाभावाद् द्वित्वं न स्यादित्याशङ्कय परिहरति द्वित्वा. दित्यादिना । धेटधातुरनिट् । भारद्वाजनियमात् थलि वेडित्याह दधिथ, दधाथेति । इटपक्षे आल्लोपः । दधथुः दध । दधौ । इति सिद्धवत्कृत्याह दधि. वेति । वसि आत्त्वे क्रादिनियमादिटि पाल्लोप इति भावः । दधिमेत्यपि एवं ज्ञेयम् । धातेति । लुटि आत्त्वे तासादि इति भावः । धास्यति । धयतु। अधयत् । धयेत् । प्राशीलिङि घुसंज्ञाकार्य वक्ष्यन् घुसंज्ञां दर्शयति दाधाध्वदाप् । देत्यनेन स्वाभाविकाकारान्तयोः 'डु दाने दाने' 'दाण दाने' इत्यनयोः, कृतात्वयोः शकारादिभिन्न प्रत्ययविषये आत्वमित्यर्थात्पर्युदासेऽपि न क्षतिरिति। आत औणलः। इह अगस्येत्यनुवर्तते। धातोरिति तु फलितार्थकथनम् । आदन्तादङ्गादित्यर्थः । आतो लोप इटि च । आर्धधातुक इत्यनुवर्तते। 'दीडो युडचि क्छिति' इत्यतोचि विडतीति च, तदेतत्फलितमाह अजाधोरार्धधातुकयोरिति । अजाद्योः किम् , ग्लायते । यक् । जाग्लायते । यङ् । दासीय । डुदामो लिङत्तमैकवचनमिट् । आर्धधातुकयोः किम् , यान्ति । वान्ति । व्यतिरै । रा दाने। कर्मव्यतिहारे धातो. लेडुत्तमैकवचनामिट । दधिथेति । एवं च अजाद्यार्धधातुकस्य कित्त्वेन दधिव दधिमेत्यादिष्वातो लोपसिद्धावपि दधिथ पपिथेत्यादिरूपसिद्धये सूत्रेऽस्मिन्निटीति ग्रहणमावश्यकमिति ज्ञेयम् । यदि तु इडागम एवात्र गृह्यते व्याख्यानात्तदाऽचि विडतीत्येतदाधधातुकस्यैव विशेषणं न तूभयोः । दाधा ध्वदाप् । इह दारूपाश्चत्वारः । डुदाम्