________________
२०८ ]
सिद्धान्तकौमुदी ।
[ भ्वादि
।
शिति । २३७१ आत औ गलः । ( ७-१-३४ ) श्रादन्ताद्धातोर्णल प्रौकाराइत्यतो धातोरित्यनुवृत्तम् एचा विशेष्यते, तदन्तविधिरिति भावः । न तु शितीति । श् चासौ इथेति कर्मधारयात्सप्तमी, प्रत्ययविशेषणत्वात्तदादिविधिः, इत्संज्ञकशकारादौ प्रत्यये परे इति लभ्यते । 'ल्यपि च ' 'न व्यो लिटि' इत्यादिपूर्वोत्तरसूत्राणां प्रत्ययेष्वेव प्रवृत्त्या ‘प्रत्यये' इति विशेष्यलाभः । अशितीति न पर्युदासः, तथा सति शिद्भिन्ने प्रत्यये परे इत्यर्थः स्यात् ततश्च 'सुग्लः' इत्यत्र ग्लैधातोः 'श्रातवोपसर्गे' इति कप्रत्ययो न स्यात्, कप्रत्ययनिमित्तमात्त्वम् श्रदन्तात्प्रत्यय इत्यन्योन्याश्रयात् । शिति नेति प्रसज्यप्रतिषेधे तु श्रात्त्वस्य नैमित्तिकतया कप्रत्ययनिमित्तकत्वाभावात् प्रथममात्त्वे कृते कप्रत्ययः सुपपादः ग्लैधातोर्भावे लिटि 'भावकर्मणोः' इति तङि एशि या न सिध्येत्, एशः शित्त्वेन तस्मिन्परे श्रात्त्वस्य निषेधात् । श्रतः कर्मधारयमाश्रित्य इत्संज्ञकशकारादौ प्रत्यये परे नेत्यर्थ प्रश्रितः । एवं च पर्युदसिऽपि न क्षतिः । इत्संज्ञकशकारादिभिन्नप्रत्यये विवक्षित इत्याश्रयणेन सुग्ल इत्यत्र कप्रत्ययात्प्रागेव श्रात्त्वोपपत्तेः । 'उपदेशे' किम् ? चेता, स्तोता । 'धातो:' किम् ? गोभ्याम् | 'गमेर्डो:' इति डोप्रत्ययोपदेशाद् उपदेशे य एच् तदन्तत्वाद् गो इत्यस्य प्राप्तिः । न च मेङादीनामुपदेशे एजन्तत्वाभावात् कथमात्त्वमिति न शङ्कयम्, 'उदीचां माङ :- ' इति निर्देशेन 'नानुबन्धकृतमने जन्तत्वम्' इति ज्ञापनादित्यास्तां तावत् । तथा च प्रकृते लिटि द्वित्वादौ दधा अ इति स्थिते यात औ । श्र इति लुप्तप्रथमाक्रम् । 'अङ्गस्य' इत्यधिकृतं पञ्चम्या विपरिणम्यते श्रत इति तद्विशेषणम्, तदन्तविधिः, तदाह श्रदन्ताद्धातोरिति । गल्प्रकृतिश्च धातुरेवेति धातुग्रहणम् । तथा च इत्युपदेशे एच् । अशितीति प्रसज्यप्रतिषेध इत्याह न तु शितीति । पर्युदासे तु जग्ले मम्ले इत्यादौ 'द्विर्वचनेऽचि' इति निषेधादात्वं न स्यादभ्यासे इकारश्च श्रूयेत । किं च सुग्ल इत्यत्र 'आतश्चोपसर्गे' इति कः । सुग्लेत्यत्र 'श्रतश्चोपसर्गे' इति स्त्रियामङ् । सुग्लान इत्यत्र 'श्रतो युच्' इति युच् न स्यात् । प्रत्ययनिमित्तं स्यात्वमादन्ताच्च प्रत्यय इत्यन्योन्याश्रयात् । प्रसज्यप्रतिषेधे तु न कोऽपि दोषः । 'ह्वावामश्व इति सूत्रेण कबाधनार्थं पुनरविधानं च प्रतिषेधपक्षे ज्ञापकम् । तदाहुः - अनैमित्तिकमात्वं शिति तु प्रतिषेध इति । नन्वेवमपि एशः शित्त्वाज्जग्ले मम्ले इत्यादि न सिध्यतीति चेत् । अत्राहुः - यदि तु शितीति बहुव्रीहिः स्यात्तदात्र स्यादेव दोषः । किं तु कर्मधारयोऽयम् । तथा चाशितीत्यत्रेत्संज्ञकशकारादौ प्रत्यये परे नेत्यर्थः । धातुप्रहणाक्षिप्तस्य प्रत्ययस्य शितीति कर्मधारयेण विशेषणाद्विषयसप्तम्यां तु इत्संज्ञक -
,
शितीति बहुव्रीह्याश्रयणे तो लोपे 'जग्ले इति