________________
२०६] सिद्धान्तकौमुदी। [ भ्वादिधातुके लिङि च ऋतो रिडादेशः स्यात् । रीढि प्रकृते रिविधिसामाद्दी? न । भ्रियात् । २३६८ उश्च । (१-२-१२) ऋवर्णात्परौ झलादी लिङ् तपरः सिधेस्येतो कितौ स्तः । भृषीष्ट भृषीयास्ताम् । प्रभार्षीत् प्रभार्टीम् प्रभाषुः । २३६६ ह्रस्वादङ्गात् । (८-२-२७) सिचो लोपः स्याज्झलि । अमृत । अभृषाताम् । अभरिष्यत् । हृञ् ८६६ हरणे । हरणं प्रापणं स्वीकारः धातुकयोः' इत्यनुवृत्तमपि लिङ एव विशेषणम् , तदाह शे यकीत्यादिना । ऋत इति । 'रीतः' इत्यतः तदनुवृत्तेरिति भावः । 'अङ्गस्य' इत्यधिकृतम् । ऋत इति तद्विशेषणम् । तदन्तविधिः । ऋदन्तस्याङ्गस्येति लभ्यते । आदेशे उकार इत् । ङित्त्वाद् अन्तादेशः । निर्दिश्यमानपरिभाषयैव सिद्धे ङकारोच्चार णम् , इडागमेनैव सिद्धे रेफोच्चारणं च स्पष्टार्थम् । ननु भ्रियादिति वक्ष्यमाणमुदाहरणमयुक्तम् , कृते रिडि 'अकृत्सार्वधातुकयोः' इति दीर्घप्रसङ्गादित्यत आह रीङि प्रकृत इति । कृते रिकि यदि दीर्घः स्यात्तर्हि रिविधियर्थः स्यात् , 'रीकृतः' इत्येव सिद्धेः। अतो रिकि कृते सति न दीर्घ इत्यर्थः । भ्रियादिति । भ्रियास्तामित्यादि सुगमम्
आशीलिङि भृषीष्टेत्यत्र गुणे प्राप्ते उश्च । 'लिङ्सिचावात्मनेपदेषु' इति सूत्रमनुवर्तते 'इको झल्' इत्यतो झलिति च, तदाह ऋवर्णादिति । भृषीष्टेति । कित्त्वान गुणः । प्रभार्षीदिति । परस्मैपदे सिचि वृद्धौ रपरत्वम् । तङि तु अभृ स् त इति स्थिते ह्रस्वादङ्गात् । ह्रखान्तादित्यर्थः । सिच इति भाष्यम् । 'झलो झलि' इत्यतो झलीति 'संयोगान्तस्य लोपः' इत्यतो लोप इति चानुवर्तते इत्याभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे सिचो लोपः स्याज्झलीति । 'हखात्' किम् ? अच्योष्ट । 'अङ्गात् किम् ? अलाविष्टाम् । 'सिचः' किम् ? द्विपराम् द्विष्टमाम् , सुजन्तात्तरप्तमपौ । अभृतेति । 'उश्च' इति सिचः कित्त्वान्न गुणः। भलीत्युक्तेः अभृषाताम् अभृषतेत्यत्र न सिज्लोपः । अनतः परत्वाद् झस्य अादेशः । अभृथाः अमृषाथाम् अभृवम् । अभृषि अभृष्वहि अभृष्महि । हृधातुरनिट् । हरणं चतु. म्रियते । उश्च । 'इको झल्' इत्यतो झल्प्रहणं 'लिसिचौ-' इति पूर्वसूत्रं चानुवर्तते, तदाह ऋवर्णादित्यादि । अभार्षीदिति । 'सिचि वृद्धिः..' इति वृद्धिः । हस्वादङ्गात् । ह्रस्वात् किम् , अच्योष्ट । अप्लोष्ट । अङ्गग्रहणादिह 'रात्सस्य' इत्यतः सस्येत्यनुवृत्तावपि प्रत्ययस्यैव तत्रापीष्टत्वात्सिच एव लोपो भवति । तेनेह न-अस्तं द्विष्टमाम् । केचित्त्विहाङ्गप्रहणाभावे अयादिष्टाम् अलाविष्टामित्यादावपि अतिप्रसङ्गः स्यादित्याहुस्तदपरे न क्षमन्ते, संनिपातपरिभाषयापि परिहारसंभवादिति । झलौति किम् , अभृषाताम् । अभृषत । हृञ् हरणे । चत्वार इहार्थाः । भा हरति, प्रापय.