________________
प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [२०५
प्रथाजन्ता उभयपदिनः । श्रि ८९७ सेवायाम् । श्रयति, श्रयते । शिश्रियतुः । श्रयिता । 'णिश्रि-' (सू २३१२) इति चङ् । अशिश्रियत् । भृञ् ८१८ भरणे । भरति । बभार बभ्रतुः । बभर्थ । बभूव । बभृधे । भर्ता । २३६६ ऋद्धनोः स्ये। (७-२-७०) तो हन्तेश्च स्यस्य इट् स्यात् । भरिष्यति । २३६७ रिङ् शयग्लिक्षु । (७-४-२८) शे यकि यादावार्धगभावे ढत्वभभावकत्वषत्त्वानि अतो दीर्घश्च । अघुक्षामहीति । दन्त्यादि. प्रत्ययपरत्वाभावान क्सलुक् । इति गृहत्यन्ताः स्वरितेतः ।
__उभयपदिन इति । मित्त्वादिति भावः। श्रिधातुः सेट । शिश्रियतु. रिति । कित्त्वान्न गुणः । इयङ् शिश्रियुः । शिश्रयिथ शिश्रियथुः शिश्रिय । शिश्राय, शिश्रय शिश्रियिव शिश्रियम । शिश्रिये शिश्रियाते शिश्रियिरे। शिश्रियिषे शिश्रियाथे शिश्रियिट्वे, शिश्रियिध्वे । शिश्रिये शिश्रियिवहे शिश्रियिमहे । श्रयितेति । श्रयिष्यति, श्रयिष्यते । श्रयतु श्रयताम् । अश्रयत् , अश्रयत । श्रयेत् , श्रयेत श्रीयात् , श्रयिषीष्ट । लुङि विशेषमाह णिश्रीति । अशिश्रियदिति । 'चढि' इति द्वित्वम् । अशिश्रियत । अश्रयिष्यत् अश्रयिष्यत। भृधातुरनिट । भरतीति । भरते इत्यपि ज्ञेयम् । बभ्रतुरिति । कित्त्वान गुणः । यण । बभ्रुः । थलादौ 'एकाचः-' इति नेट , कृसमृवस्तुद्रुश्रुषु लिव्यपि तनिषेधस्य प्रवृत्तेः । थलि 'अचस्तावत्-' इति निषेधाच, ऋदन्तत्वेन भारद्वाजमतेऽपि थलि निषेधाच्च, तदाह बभर्थेति । बभ्रथुः बभ्र । बभार, बभर-इति सिद्धवत्कृत्याह बभृवेति । बमम । बघ्र बभ्राते बधिरे-इति सिद्धवत्कृत्याह बभृषे इति । बभ्राथे बभृट्वे । बभ्रे बमृवहे बभृमहे । लुटि स्ये इएिनषेधे प्राप्ते ऋद्धनोः । ऋत् हन् अनयोर्द्वन्द्वात् पञ्चम्यर्थे षष्टी । स्ये इति षष्ठयर्थे सप्तमी । 'आर्धधातुकस्यैट-' इत्यत इडित्यनुवर्तते, तदाह ऋत इत्यादिना । 'एकाचः-' इति इएिनषेधस्यापवादः । भरिष्यतीति । भरिष्यते । भरतु भरताम् । अभरत्, अभरत । भरेत् , भरेत । श्राशीलिडि परस्मैपदे मृ यात् इति स्थिते रिङ् शय । श यक् लिङ् एषां द्वन्द्वात्सप्तमीबहुवचनम् । 'अयक यि डिति' इत्यतो योति सप्तम्यन्तमनुवृत्तं लिडो विशेषणम् , तदादिविधिः। शे तु योति नान्वेति, असंभवात् । नापि यकि, अव्यभिचारात् । अत एव 'अकृत्सार्वक्षत । अदिग्ध । अधिक्षत । अलीढ । अलिक्षतेत्यादि । रिङ् शयग्लिङ्घ । 'अयङ् यि विति' इत्यतोऽनुवृत्तं यीत्येतल्लिङ एव विशेषणम् , शेऽसंभवात् , यकि तु वैयर्थ्यात् । तथा 'अकृत्सार्वधातुकयोः-' इत्यनुवृत्तमपि लिङ एव विशेषणमित्यभिप्रेत्याह यादावित्यादि । शे-म्रियते । 'तुदादिभ्यः-' इति शः । यकि-क्रियते ।