________________
२०४ ] सिद्धान्तकौमुदी।
[ भ्वादि. गोढा । गहिष्यति, पोषयति । गृहेत् । गुह्यात् । अगृहीत् । इडभावे क्सः । अघुक्षत् ।२३६५ लुग्चा दुहदिहलिहगुहामात्मनेपदे दन्त्ये। (७-३-७३) एषां क्सस्य लुग्वा स्यादन्त्ये तङि । ढवधत्वष्टुवढलोपदीर्घाः। अगूढ । अघुक्षत । 'क्सस्याचि' (सू २३३७ ) इत्यन्तलोपः । अधुक्षाताम् अघुक्षन्त । अगुह्वहि, अघुमावहि । अघुक्षामहि । जुगुहाते जुगुहिरे । जुगूहिथ, जुगोढ । ढत्वधत्वष्टुत्वढलोपाः । जुगुहथुः जुगुह । जुगुहिषे, जुघुत्ते। ढत्वभभावकत्वषत्वानि । जगुहाथे जुगुहिष्वे, जुघुट्वे । जुगूह जुगुहिव, जुगुह्व जुगुहिम, जुगुह्म । जुगुहे जुगुहिवहे, जुगुह्वहे जुगुहिमहे, जगुह्महे-इति लिटि रूपाणि सिद्धवत्कृत्य लुटि इट्पक्षे ऊत्वे रूपमाह गृहितेति । इडभावे अजादिप्रत्ययाभावाद् ऊत्त्वाभावे गुणे ढत्वधत्वष्टुत्व हलोपेषु रूपमाह गोढेति । लुटि स्ये इट्पक्षे ऊत्त्वे रूपमाह गृहिष्यतीति । इडभावे तु गुणढत्वभभावकत्वषत्वेषु रूपमाह घोक्ष्यतीति । गहिष्यते, घोक्ष्यत इत्यप्युदाहार्यम् । गृहतु। गृहताम् । अगृहत् । अगूहत । गृहेदिति । गृहेतेत्यपि ज्ञेयम् । गह्यादिति । आशीलिङि अजादिप्रत्ययाभावादूत्त्वं न । कित्त्वान्न गुणः । लुङि इट्पक्ष सिज्लोपे ऊत्त्वे रूपमाह अगूहीदिति । अगृहिष्टाम् अगूहिषुरित्य दि । इडभावे क्स इति । इगुपधशलन्तत्वादिति भावः। अघुक्षदिति । ढत्वभभावकत्वषत्वानि । अधुक्षताम् अघुक्षनित्यादि । लुङस्तङि विशेषमाह लुग्वा दुह । दन्त्ये तङीति । दन्त्यादौ तडीत्यर्थः । प्रत्ययादर्शनत्वात्सर्वादशोऽयं लुम् । अगूढेति । अगुह् स त इति स्थिते क्सस्य कित्त्वेन गुणहेतुत्वाभावादजादित्वाभ वाच्च ऊत्त्वाभावे क्सलुकि अगुह् त इति स्थिते प्रक्रियां दर्शयति ढत्वधत्वष्टुत्वढलोपदीर्घा इति । अघुततेति। क्सलुगभावे ढत्वभष्भावकत्वषत्वानीति भावः । अघुना. तामिति । च्लेः क्सादेशे क्सस्य कित्त्वेन गुणहेतुत्वाभावादूत्त्वाभावे ढत्वभष्भावकत्वषत्वेषु कृतेषु 'क्सस्याचि' इत्यन्त्यलोपे अतः परत्वाभावाद् 'आनो ङितः' इति न भवतीति भावः । अघुक्षन्तेति । झस्य प्रजादित्वाभावात्तस्मिन्पो क्सस्य अन्त्यलोपाभावादतः परत्वाभावाद् ‘आत्मनेपदेष्वनतः' इत्यदादेशो न भवति । कृते तु भोऽन्तादेशे क्सस्यान्तलोप इति भावः। अधुतथाः अघुनाथाम् अधुक्षध्वम् । अघुक्षि-इति रूपाणि सिद्धवत्कृत्याह अगुह्वहीति । दन्त्य दिप्रत्ययपरत्वात् क्सस्य लुङि अजादिप्रत्ययाभावाद् ऊत्त्वाभावे रूपम् । अघुतावहीति । क्सलुश्नुधातु-' इत्यतोऽनुवृत्तेनाचीत्यनेनाजाक्षिप्तप्रत्ययो विशेष्यते, विशेषणेन तदादिविधिस्तदाह अजादाविति । दन्त्ये तडीति । दन्त्यादौ तडीत्यर्थः । अदुग्ध । अधु