________________
प्रकरणम् ४३ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ २०३
( सू २३१३ ) खायात्, खन्यात् । चीवृ ८७६ श्रादानसंवरणयोः । चिचीव, चिचीवे । चायृ ८८० पूजानिशामनयोः । व्यय ८८१ गतौ । अव्ययीत् । दाश्रु ८८२ दाने । ददाश, ददाशे । भेषृ ८८३ भये । गतौ इत्येके । भेषति, भेषते । श्रेषृ ८८४ भ्लेट ८८ गतौ । अस८८६ गतिदीप्त्यादानेषु । असति, असते । प्रास, आसे । अयं षान्तोऽपि । स्पश ८८७ बाधनस्पर्शनयोः । स्पर्शनं प्रथनम् । स्पशति, स्पशते । लष ममय कान्तौ । ' वा भ्राश -' ( सू २३२१ ) इति श्वन्वा । लभ्यति, लवति । लेषे । चष ८८६ भक्षणे । छष ८६० हिंसायाम् । चच्छषतुः चच्छुषे । झष ८६१ श्रदानसंवरणयोः । भ्रत ८६२ लक्ष ८६३ श्रदने । भक्ष इति मैत्रेयः । दास ८१४ दाने । माह ८९२ माने । गुहू ८१६ संवरणे । २३६४ ऊदुपधाया गोहः । ( ६-४-८९) गुह उपधाया ऊत्स्याद् गुणहेतावजादौ प्रत्यये । गूहति, गूहते। ऊदिवादिड् वा । गूहिता, नोपधालोपः । 'अनङि' इति किम् ? श्रगमत् । चख्ने चख्नाते इत्यादि । व्यय गताविति । अयं वित्तत्यागेऽपि, अर्थनिर्देशस्योपलक्षणत्वात् । अव्ययीदिति । 1 ह्ययन्तेति न वृद्धिः । चष भक्षण इति । चचाष चेषतुः । छष हिंसायामिति । वैरूप्यसंपादकादेशादित्वादेत्त्वाभ्यासलोपौ न, तदाह चच्छषतुरिति । गुहू संवरण इति । उदुपधोऽयम् । ऊदित् । ऊदुपधायाः । गोह इति कृतलघूपधगुणस्य गुहेर्निर्देशः । ततश्च गुणविषय एवेदं भवति । 'अचि श्नुधातु-' इत्यतः अनुवृत्तस्य अचीत्यस्य श्रङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिः, तदाह गुह उपधाया इत्यादिना । गुणहेताविति । गुणं प्रति परनिमित्तभूत इत्यर्थः। गुणापवादः । जुगूह । 'गुणहेतौ' इति किम् ? जुगुहतुः जुगुहुः । जुगुहे जक्षतुः । जक्षुः । अनङीति किम् अगमत् । चीवृ । चीवरं वस्त्रम्, 'चीवर पीवरमीवर -' इत्युणादिषु निपातितोऽयम् । व्यय गतौ । वित्तत्यागे तु नित्यमात्मनेपदी गत इति मनोरमा । न कुत्रापि गत इति चिन्त्यैव सा । श्रव्ययीदिति । यान्तत्वान्न बृद्धिः । स्पश । बाधनस्पर्शनयोः । 'णिश्रि-' इति च्लेश्चङि । अपस्पशत् । 'अत्स्मृहत्वरप्रथ-' इत्यादिना श्रभ्यासस्यात्वं सन्वदित्वापवादः । पस्पशा । यङन्तादचि 'यङोऽचि च' इति लुक् । 'श्रजाद्यतः -' इति टाप् । 'दीर्घोsकितः' इत्यभ्यासस्य दीर्घस्तु न भवति संज्ञापूर्वक विधेरनित्यत्वादित्याहुः । 'जपजभ दह दशभञ्जपशां च' इत्यत्र पेसेति सौत्रो धातुः । पसतीत्यादि । यङ्लुकोस्तु 'जपजभ - ' इत्यनेनैवाभ्यासस्य नुक् । यङि पंपस्यते । लुकि पंपसीति । पंपस् इति कण्ड्वादिः । पंपस्यति । ऊदुपधाया । गुणहेताविति । एतच गोह इति विकृतनिर्देशाल्लब्धम् । 'अचि १ अस्य सान्तत्वं माधवमतेन । काशिकायां तु तालव्यान्तः ।