________________
२०२]
सिद्धान्तकौमुदी। [भ्वादि. उन्दने । उन्दनं वेदनम् । शर्धति, शर्धते । शर्धिता । मर्धति,मर्धते । बुधिर् ८७५ अवबोधने । बोधति, बोधते । इरित्वादङ् वा । अबुधत्, अबोधीत् , प्रबोधिष्ट । 'दीपजन- (सू २३२८) इति चिण तु न भवति, पूर्वोत्तरसाहचर्येण दैवादिकस्यैव तत्र ग्रहणात् । उ बुन्दिर ८७६ निशामने । निशामनं ज्ञानम् । बुबुन्दे । अबुदत् , अबुन्दीत् । वेणु ८७७ गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु । वेणति, वेणते । नान्तोऽप्ययम् । खनु ८७८ भवदारणे । खनति, खनते । २३६३ गमहनजनखनघसां लोपः क्ङित्यनङि । (६-४-६८) एषामुपधाया लोपः स्यादजादौ विकति न स्वङि। चख्नतुः। 'ये विभाषा' याचने । अचतीदिति । एदित्त्वान्न वृद्धिः । एवमचदीत् । बुधिर अवबोधन इति । 'बुध अवगमने' इति केवलपरस्मैपदी गतः। स तु ज्वलादिकार्यार्थः । अयं तु इरित् स्वरितेत् । अनिट्सु श्यन्विकरणस्यैव पाठादयं सेट् । अबुधदिति । इर इत्त्वेपि तदवयवस्य इकारस्य प्रत्येकमित्त्वाभावान नुम् । स्वरितेत्त्वप्रयुक्तमात्मनेपदं तु भवत्येव, स्वरितेत्सु पाठसामर्थ्यात् । वस्तुतस्तु इकारस्य प्रत्येकमित्वेऽपि न नुम्, इदितो नुमित्यत्र कर्मधारयमाश्रित्य इत्संज्ञककारान्तस्यैव नुविधेः । पूर्वोत्तरेति । जनपूरिसाहचर्येणेत्यर्थः। उ बुन्दिरिति । श्राद्य उकार इत् 'उदितो वा' इति तवायामिड्विकल्पार्थः । अबुददिति । इरित्वादछि 'अनिदिताम्-' इति नलोपः । इर इकारस्य प्रत्येकमित्संज्ञाविरहाद् अनिदितामित्यस्य इत्संज्ञकेकारान्तभिन्नानामित्यर्थाश्रयणाच्चति शब्देन्दुशेखरे स्थितम् । वेण गतीति । वाद्यभाण्डस्य वादनार्थ ग्रहणं वादित्रग्रहणम् । खनुधातुरुदित् । क्त्वायामिड्विकल्पः । गमहन । उपधाया इति। 'ऊदुपधायाः-' इत्यतः तदनुवृत्तेरिति भावः। अजादाविति । 'अचि श्नुधातु-' इत्यतः अनुवृत्तस्य अचि इत्यस्य अङ्गाक्षिप्तप्रत्ययविशेषणतया तदादिविधिलाभ इति भावः । क्ङिती युक्तः चखानेत्यत्र इति विग्रहः । 'सुप्यजातौ-' इति णिनिः । शृधु मृधु । क्लेदनमिति । आर्दीभाव इत्यर्थः । उदित्त्वात् क्त्वायां वेट । शर्धित्वा। शृद्ध्वा । उबुन्दिर् । बुन्दित्वा । बुत्त्वा । निष्ठायां बुन्नः। निशामन चाक्षुषं ज्ञानम् । वेण । गत्यादयः पार्थाः । वाद्यभाण्डस्य वादनार्थ ग्रहणं वादित्रग्रहणम् । वेणिः वेणी वेणुरियादिरूपाण्यस्यैव धातोः । नान्तोऽपीति । 'उत माता महिषमन्ववेनत्' इत्यत्र नान्तदर्शनादिति भावः । खनु । खनित्वा । खात्वा । निष्ठायाम् । खातः । गमहन । 'अचि श्नुधातुभ्रुवाम्-' इत्यतोऽचीत्यनुवर्तते, ऊदुपधाया गोहः' इत्यत 'उपध प्रहणं च, तदाह एषामुपधाया इत्यादि । जग्मतुः । जग्मुः । जनतुः । जघ्नुः । जज्ञे। जज्ञाते।
HINHER