________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२०१ कोचति । चुकोच । बुध ५८ अवगमने । बोधति । बोधिता। बोधिष्यति । रुह ८५६ बीजजन्मति प्रादुर्भावे च। रोहति । रुरोह । रुरोहिथ । रोढा । रोषयति । अरुक्षत् । कस ८६० गतौ। अकासीत् , अकसीत् । वृत् । ज्वनादिगणः समाप्तः ।
अथ गूहस्यन्ताः स्वरितेतः । हिक ८६१ अव्यक्ने शब्दे । हिक्कति,हिकते। अम्चु ८६२ गतो याचने च । अञ्चति, अञ्चते । अचु इत्येके । अचि इत्यपरे टु याच ८६३ यामायाम् । याचति, याचते । रेट्र ८६४ परिभाषणे । रेटति, रेटते । चते ८६५ चदे ८६६ याचने । चचात, चेते। अचतीत् । चचाद, चेदे। अचदीत् । प्रोथ ८६७ पयाप्ती । पुप्रोथ, पुप्रोथे। मिड ८६८ मेह ८६६ मेधाहिंसनयोः। मिमेद, मिमिदें। मिमेदे। थान्ताविमौ इति स्वामी। मिमेथ। धान्ती इति न्यासः । मेघ ८७० संगमे च । मेधति । मिमेधे । णि ८७१ णेदृ ८७२ कुत्सासंनिकर्षयोः । निनेद निनिदतुः । निनिदे । निनेदे । शृधु ८७३ मृधु ८७४ पुनरिह पाठः संपर्चनादावेव ज्वलादिकार्यणप्रत्ययार्थः । अर्थनिर्देशः क्वचित्पाणिनीय इति भूधातौ प्रपश्चितम् । बुध अवगमन इति । सेटकोऽयम्, अनिट्सु श्यन्विकरणस्यैव वुधेर्ग्रहणात् , तदाह बोधितेति । अबोधीत् । रुहधातुरनिटकः । कादिनियसाथल्यपि नित्यमित् । अजन्ताकारवत्त्वाभावाद् न भारद्वाजनियमः । रोढेति । लुटि तासि गुणे ढत्वधत्वष्टुत्वढलोपाः । रोक्ष्यतीति । लुटि स्ये ढकषाः । अरुक्षदिति । इगुपधशलन्तत्वात् क्से ढकषाः कित्त्वान गुणः। वृदिति। 'ज्वलितिकसन्तेभ्यः-' इति उत्तरावधेरपि कसेर्ग्रहणादेव सिद्धेः वृत्करणं स्पष्टार्थमित्याहुः। इति ज्वलादयः ।
__ गृहत्यन्ता इति । 'गुह संवरणे' इत्येतत्पर्यन्ता इत्यर्थः । चते चदे यान्तेषु पठितस्य पुनरिह पाठः संपर्चनादावेव ज्वलादित्वप्रयुक्तो णप्रत्ययो यथा स्यादिति मनोरमादौ स्थितम् । अत्र नव्याः-अनेनैव प्रन्थेन पाणिनिनापि कचित् क्वचिदर्थनिर्देशः कृत इत्यनुमीयते अन्यथाऽत्रत्यग्रन्थस्वारस्यभङ्गापत्तेरित्याहुः । बोधितति । बुध्यतेरेवानिटकारिकासु पठितत्वादयं सेडिति भावः । अकासीदिति। हलन्तलक्षणाया वृद्धेः 'नेटि' इति निषेधेऽपि 'अतो हलादेः-' इति वैकल्पिकी वृद्धिः। वृदिति । अत्र नव्याः-'ज्वलितिकसन्तेभ्यः-' इति निर्देशाद् वृत्करणमिहानार्षमित्यनुमीयते । अन्यथा 'ज्वलादिभ्यो णः' इत्येव सूत्रयेदित्याहुः । अञ्चु गतौ । 'अनिदिताम्-' इति नलोपः। अच्यात् । अचीत्येकीयमते तु इदित्त्वादश्चयात् । मेधृ संगमे च । चात्पूर्वोकेऽथें । 'प्रजायै गृहमेधिनाम्' इत्यत्र गृहेरिर्मेधन्ते सङ्गच्छन्ते