________________
२००] सिद्धान्तकौमुदी। [भ्वादिणतायामयम् । शातनं तु विषयतया निर्दिश्यते । २३६२ शदेः शितः। (१-३-६०) शिद्भाविनोऽस्मादात्मनेपदं स्यात् । शीयते । शशाद शेदतुः । शेदिथ, शशस्थ । शत्ता । प्रशदत् । क्रुश ८५६ श्राह्राने रोदने च । क्रोशति । कोष्टा । ब्लेः क्सः। अकुत्तत् । कुच ८५७ सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु। त्परस्येति । शदलू शातन इति । ननु शद्धातोरस्माद् हेतुमण्ण्यन्ताद् ल्युटि शदेरगतौ तः' इति दकारस्य तकारे शातनशब्दः । तथा च शातनं शीर्णतानु. कूलक्रियति फलति । एवं च सकर्मकत्वापत्तौ विशीर्यतीत्यर्थे शीयत इति वक्ष्यमाणमुदाहरणं कथमित्यत आह विशीर्णतायामिति । विशरणे इत्यर्थः। तर्हि कथं शातनमिति हेतुमरिणजित्यत आह शातनं तु विषयतयेति । विपूर्वात् 'षिञ् बन्धने' इत्यस्माद् विषयशब्दः। अविनाभावेनेत्यर्थः । प्रयोजकव्यापारं विना विशरणस्यासंभवात् शातननिर्देशः । एयर्थस्याविवक्षितत्वाद् विशरणमेव शद्लधात्वर्थ इति यावत् । शदेः शितः। 'अनुदात्तङितः' इत्यस्मादात्मनेपदमित्यनुवर्तते। श् इद् यस्य स शित् । शप् विवक्षितः। शिति विवक्षिते सतीत्यर्थः, तिकुत्पत्तेः पूर्व सार्वधातुकाश्रयस्य शपोऽसंभवात् , तदाह शिद्भाविन इति । शिद् भावी भविष्यन् यस्मात्स शिद्भावी तस्मादित्यर्थः। शीयते इति । शपि शदेः शीयादेशः । विशीर्यतीत्यर्थः । शीयेते शीयन्ते इत्यादि । शिद्विषयादित्युक्तेलिटि नात्मनेपदम् , इत्संज्ञकशकारादावित्युक्तर्न शीयादेशः, तदाह शशादेति । अनिट्कोऽयम् । क्रादिनियमप्राप्तस्य इट: 'उपदेशेऽत्वतः' इति नियमात्थलि भारद्वाजनियमाद् वेट , तदाह शेदिथ शशत्थेति च । इट्पजे 'थलि च सेटि' इत्येत्त्वाभ्यासलोपाविति भावः। शेदिव शेदिम । क्रादिनियमादिट । अशददिति । लुदित्त्वादछिति भावः । क्रुशधातुरनिटकः । चुकोशिथ । क्रादिनियमात्थलि नित्यमिट । अजन्ताकारवत्त्वाभावान्न भारद्वाजनियमः । चुकुशिव चुकुशिम । क्रोष्टेति । व्रश्वादिना शस्य षत्वे ष्टुत्वेन तकारस्य टः। च्लेः क्स इति । इगुपधशलन्त. त्वादिति भावः । अतदिति । व्रश्चादिना शस्य षः । 'षढोः-' इति षस्य कः, सस्य षत्वम् । कित्त्वान्न गुणः । कुच संपर्चनेति । 'कुच शब्दे' इति पठितस्य इत्यत्राप्रतेरिति पर्युदासात्प्रतिससादेत्यत्राभ्यासस्यापि षत्वं नेति बोयम् । शदल । विशीर्णतायामिति वक्तव्ये शातने इत्युक्तिरसंगतेत्याशङ्कय कथंचित्समाधत्ते शातनं त्विति । शदेरेव हि णिचि 'शदेरगतौ-' इति तत्वे ल्युटि च शातनमिति रूपम् । तथा चास्यैव धातोरिदं रूपं प्रसिद्धं चेत्यभिप्रेत्य तन्निर्देशः कृतः । यथा गम्लु गतौ। डुपचापाके इत्यादाविति भावः । कुच संपर्चनादौ । कुच शब्दे तारे इति चवर्गी