________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१६६ पश्यर्छधौशीयसीदाः। (७-३-७८) पादीनां पिवादयः स्युरित्संज्ञकशकारादौ प्रत्यये परे। सीदति । ससाद सेदतुः । सेदिथ, ससस्थ । सत्ता। सत्स्यति । तृदित्वाद। असदत् । 'सदिरपतेः' (सू २२७१)। निषीदति । न्यषीदत् । २३६१ सदेः परस्य लिटि । (८-३-११८) सदेरभ्यासा. स्परस्य षत्वं न स्याल्लिटि । निषसाद निषेदतुः । शद्लु शातने । विशी. षोपदेशः अनिट्कश्च । लटि शपि सद् अति इति स्थिते पाघ्राध्मा । पा घ्रा ध्मा स्था ना दाण दृशि अर्ति सर्ति शद् सद्, एषां द्वन्द्वात् षष्ठीबहुवचनम् । पिब जिघ्र धम तिष्ठ मन यच्छ पश्य ऋच्छ धौ शीय सीद, एषां द्वन्द्वात् प्रथमा बहुवचनम् । यथासंख्यमादेशाः 'ष्ठिवुलमु-' इत्यतः शितीत्यनुवर्तते । शचासो इच्चेति कर्मधारयः । अङ्गाक्षिप्तप्रत्ययविशेषणत्वात् तदादिविधिः, तदाह इत्संज्ञ. केति । ससादेति । इत्संज्ञकशकारादिप्रत्ययाभावाद् न सीदादेशः। श् इद् यस्य स शित् । शितीति बहुव्रीह्याश्रयणे तु पाधातोः कर्मणि लिटि एशि आल्लोपे पपे इत्यत्रापि पिबादेशः स्यादिति बोध्यम् । थलि क्रादिनियमप्राप्तस्य इटः 'उपदेशे. ऽत्त्वतः' इति निषेधेऽपि भारद्वाजनियमाद्वेट् । तत्र इट्पक्षे 'थलि च सेटि' इत्ये. त्त्वाभ्यासलोपौ, तदाह सेदिथ ससत्थेति । सेदिव सेदिम । क्रादिनियमादिट् । न्यषीददिति । 'प्राक्सितादड्व्यवायेऽपि' इति षत्वम् । निषसादेत्यत्र अभ्यासात् परस्य 'स्थादिष्वभ्यासेन- इति षत्वे प्राप्ते सदेः परस्य । 'न रपरइत्यतो नेत्यनुवर्तते। मूर्धन्य इत्यधिकृतम् । सदरित्यवयवषष्ठी । परशब्द उत्तरखण्डपरः। सदेरुत्तरखण्डस्य षत्वं नेति लभ्यते । फलितमाह सदरभ्यासा. रमयति । षदल । विशरणमवयवानां विश्लेषः । अवसादनं नाशः। पाघ्राध्मा। पा पाने । पा रक्षणे इति तु न गृह्यते । लुग्विकरणत्वात् । ष्ट्रोति केषांचित्पाठस्तत्र 'मृजिशोः-' इत्यम् । अर्तीत्यादी ऋच्छादेशाद्यभाव इव सौत्रत्वात्पश्यादेशाभाव इति बोध्यम् । दृश्यर्तीति पाठस्तु निर्दुष्ट एव । पादीनामिति । एकादशानामेषां यथासंख्यमेकादश-पिबाद्यादेशाः स्युरित्यर्थः । 'ष्ठिवुक्लमुचमाम्-' इत्यतः शितीत्यनुवर्तते, स च कर्मधारय इत्यभिप्रेत्याह इत्संज्ञकशकारादाविति । शकारादाविति किम् , पपे । जर्गे । दध्मे । शितीति बहुव्रीहिरित्यभ्युपगमे त्विह पिबाद्यादेशाः स्युरेव । सेदिथेति । 'उपदेशेऽत्वतः' इति कादिनियमप्राप्तस्येटो निषेधेऽपि भारद्वाजनियमादिट्। सदेः परस्य । सदेरिति षष्ठी । फलितमाह अभ्यासात्परस्येति । 'स्थादिध्वभ्यासेन च-' इति प्राप्तिः । लिटीति कीम् , निषिषित्सति । सदिस्वञ्जयोरिति वृत्त्यादिरूढोऽपि पाठ इहोपेक्षितः, भाष्याननुगुणत्वात् । निषसादेति । 'सदिरप्रते.'
१ 'द्रष्टि' इति क्वचित् पाठः ।