________________
१६८] सिद्धान्तकौमुदी।
[ भ्वादिइति षस्वम् । परिषहते । सेहे । सहिता । 'तीषसह-' (सू २३४० ) इति वा इट् । इडभावे ढस्वधत्वष्टुवढलोपाः । २३५७ सहिवहोरोदवर्णस्य । (६-३-११२) अनयोरवर्णस्य श्रोत्स्याड्ढलोपे सति । २३५८ सोढः। (८-३-११५) सोढरूपस्य सहेः सस्य षत्वं न स्यात् । परिसोढा । २३५६ सिवादीनां वाव्यवायेऽपि । (८-३-७१) परिनिविभ्यः परेषां सिवादीनां सस्य षो वा स्यादड्व्यवायेऽपि । पर्यषहत, पर्यसहत । रमु ८५३ क्रोडा. याम् । रेमे । रेमिषे । रन्ता । रंस्यते । रंसीष्ट । अरंस्त ।
अथ कसन्ताः परस्मैपदिनः । षद्लु ८५४ विशरणगत्यवसादनेषु। २३६० पाघ्राध्मास्थाम्नादाएदृश्यर्तिसतिशदसदां पिबजिघ्रधमतिष्ठमनयच्छ
षह मर्षण इति । अपराधे सत्यपि कोपानाविष्करणं मर्षणम् । इडभाव इति । सड् ता इति स्थिते 'हो ढः' इति ढत्वं 'झषस्तथोः-' इति तकारस्य धत्वम् । धस्य ष्टुत्वेन ढः । 'ढो ढे लोपः' इति पूर्वस्य ढस्य लोप इत्यर्थः । सढा इति स्थितम् । सहिवहोः। ढलोप इति । 'ठूलोपे-' इत्यतस्तदनुवृत्तेरिति भावः । रलोप इति तु नानुवर्तते, असंभवात् । तथा च सकारादकारस्य श्रोत्वे सोढेति रूपम् । परिसोढेत्यत्र 'परिनिनिभ्यः-' इति षत्वे प्राप्ते । सोढः। सोढ इति सहेरोत्वसंपन्नस्य षष्ठयन्तम् । 'सहेः साडः सः' इत्यतः स इति षष्ठयन्तमनुवर्तते। 'न रपर-' इत्यतो नेति । मूर्धन्य इत्यधिकृतम् , तदाह सोढ़रूपस्येत्यादिना । सिवादीनाम् । 'परिनिविभ्यः-' इति सूत्रादुत्तरमिदं सूत्रम् , तदाह परिनिविभ्यः परेषामिति । सिवुसहसुट्स्तुस्खञ्जामिति शेषः। रमु क्रीडायामिति । नायमुदिदिति माधवः । केचित्तु उदितं मत्वा 'उदितो वा' इति क्त्वायामिड्विकल्पमिच्छन्ति । अनिट्कोऽयम् । लिटि कादिनियमादिट् , तदाह रेमिष इति ।
अथ कसन्ता इति । 'कस गतौ' इत्येतत्पर्यन्ता इत्यर्थः। षद्लुधातुः इति वृद्धिः । षह । अपराधे सत्यपि कोपानाविष्करणं मर्षणम् । सहिवहो । इह रेफलोपस्यासंभवाद् ‘ठूलोपे पूर्वस्य-' इत्यतो ढलोप एवानुवर्तते तदाह ढलोप इति । ढलोपे किम् , सहते । वहते । सोढः । षत्वं नेति । 'न रपर-' इति सूत्रानेत्यनुवर्तत इति भावः । सिवादीनां । सिवुसहसुट्स्तुस्खजः सिवादयः । पर्यषीव्यत् । पर्यसीव्यत् । पर्यष्करोत् । पर्यस्करोत् । न्यष्टौत् । न्यस्तौत् । व्यष्वजत् । व्यस्वजत् । रम क्रीडायाम् । अमुमुदितं मत्वा रत्वा रमित्वेति केचिदुदाजहस्तन्माधवादयो न सहन्ते । तथा च क्त्वायां रत्वेत्येव साधु । रेमिषे इति । क्रादिनियमादिद् । पचाद्यचि टाप् । रमा । घत्रि तु रामः । श्रमन्तत्वेन मित्त्वाद् णौ हवः ।