________________
प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [१६७ इस्वमिति सुधाकरः । ववाम ववमतुः । वादित्वादेत्त्वाभ्यासलोपो न । भागवृत्ती तु वेमतुरित्याद्यप्युपाहृतम् । तद्भाष्यादौ न दृष्टम् । भ्रमु ८५० चलने । 'वा श्राश-' (सू २३२१) इति श्यन्वा । भ्रम्यति, भ्रमति । भ्राम्यति इति तु दिवादो वक्ष्यते । २३५६ वा भ्रमुत्रसाम् । (६-४-१२४ ) एषामेस्वाभ्यासलोपौ वा स्तः किति लिटि सेटि थलि च । भ्रमतुः, बभ्रमतुः । अभ्रमीत् । घर ८५१ संचलने । अक्षारीत् ।
अथ द्वावनुदात्तेतौ । षह ८५२ मर्षणे । 'परिनिविभ्यः-' (सू २२७५) इहैवेति। उद्गिरण इत्यर्थनिर्देशः पाणिनीय इति सुधाकरो मन्यते । भ्रमु चलन इति । वक्रमार्गसंचारे इत्यर्थः । अयथार्थज्ञानेऽप्ययम् । 'उदितो वा' इति क्त्वायामिड्विकल्पार्थमुदित्त्वम् । वा भ्रमु । 'अत एकहल्मध्ये-' इत्यतो लिटि इति 'थलि च सेटि' इति चानुवर्तते । 'ध्वसोरेद्धौ-' इत्यत एदिति 'गमहन-' इत्यतः कितीति च, तदाह एषामिति । अभ्रमीदिति । 'मयन्त-' इति न वृद्धिः । अक्षारीदिति । 'अतो ल्रान्तस्य' इति वृद्धिः ।। अन्यथा गुणे सति उद्गरण इति स्यात् । यद्यपि अर्थनिर्देश प्राधुनिकस्तथापि पृषोदरादित्वादित्वमित्यत्रैव तात्पर्य बोध्यम् । इत्याद्यप्युदाहृतमिति । 'वेमुश्च केचिद्रुधिरम्' इत्यादिप्रयोगानुरोधेन तथोदाहृतमित्याहुः । ननु वादित्वेन निषेधादेत्वाभ्यासलोपौ कथमिह स्यातामिति चेत्। अत्राहुः–'न शसददवादिगुणानाम्' इति सूत्रितेऽपि वेत्यकारान्तसंघातग्रहणेनेष्टसिद्धरादिप्रहणमौपदेशिकप्रतिपत्त्यर्थम् । एकान्ता अनुबन्धा इति च स्वीक्रियते । तथा च नायं वादिः, किं तु ट्वादिरिति । अन्ये तु वमेरादौ लोपो व्योः-' इति लोपेन यकारः प्रश्लिष्यत । ततश्चोपदेशे वादित्वाभावानिषेधो नेत्याहुः। भ्रमु चलने । मण्डलाकारेण चलनमेव धात्वर्थो न तु चलनमात्रम् , तदभाववद्विशेष्यकं तत्प्रकारकज्ञानं च धात्वर्थः । 'शुक्ति पश्यन् रजतमिति भ्रमति' इति प्रयोगात् । 'उदितो वा' इति क्त्वायां वेट । भ्रमित्वा, भ्रान्त्वा । 'यस्य विभाषा' इति निष्ठायां नेट् । भ्रान्तः। नन्वस्य ज्वलादिगणे पाठः किमर्थः । न चात्र प्रत्ययार्थमेव पाठ इति वाच्यम् , पचादेराकृतिगणत्वादच्प्रत्ययेनापि भ्रम इति रूपसिद्धेः 'नोदात्तोपदेशस्य-' इति वृद्धिनिषेधाद् एप्रत्यये अच्प्रत्यये च रूपस्य तुल्यत्वादिति चेत् । अत्राहुः-यदि पचादित्वादच्प्रत्ययः स्यात्तर्हि अभ्रम इत्यत्र 'अचकावशक्ती' इति नञः परमन्तोदात्तं स्यात् । णप्रत्यये त्विह 'तत्पुरुषे तुल्यार्थ-' इत्यायुदात्तमेव भवतीति । वा भ्रमुत्रसाम् । अप्राप्तविभाषेयम् । अभ्रमीदिति । भान्तत्वान वृद्धिः । अक्षारीदिति । हलन्तलक्षणाया वृद्धेः 'नेटि' इति निषेधेऽपि 'अतो लान्तस्य'