________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १६५
9
स्वरितेत् । राजति, राजते । रेजतुः, रराजतुः । रेजे, रराजे । 'अतः' इत्यनुवृत्तावपि विधानसामर्थ्यादात एवम् । टु भ्रातॄ ८२३ टु भ्राट ८२४ टु म्लान ८२५ दीप्तौ । श्रनुदात्तेतः । भ्राजतेरिह पाठः फणादिकार्यार्थः । पूर्वं पाठस्तु ब्रश्चादिषत्वाभावार्थ: । तत्र हि राजिसाहचर्यात्फणादेरेव ग्रहणम् । भेजे, बभ्राजे । 'वा भ्राश - ' ( सू २३२१ ) इति श्यन् वा । भ्राश्यते, भ्राशते । श्रेशे, बभ्राशे । भ्लाशते, भ्लाश्यते । भ्लेशे, बभ्लाशे । द्वावपीमौ तालग्यान्तौ । स्यमु ८२६ स्वन ८२७ ध्वन ८२८ शब्दे । स्वमादयः चरत्यन्ताः परस्मैपदिनः । स्येमतुः सस्यमतुः । अस्यमीत् । स्वेनतुः, सस्वनतुः । श्रस्वनीत्, अस्वानीत् । विष्वणति । अवष्वणति । सशब्दं भुङ्क्ते इत्यर्थः । ' वेश्व स्वन:-' ( सू २२७४ ) इति षत्वम् । फणादयो गताः । दध्वनतुः । षम ८२६ ष्टम ८३० अवैकल्ये । ससाम । तस्ताम । ज्वल ८३१ दीप्तौ । 'अतो लान्तस्य' ( सू २३३० ) । अज्वालीत् । रेजतुरित्यादि । ननु 'फणां च सप्तानाम्' इत्यत्र अत इत्यनुवृत्तेः कथमिह एवाभ्यासलोपावित्यत आह अत इत्यनुवृत्तावपीति । श्रत इति नानुवर्तते । तदनुवृत्तावपि फणादिसप्तानामपि वचनसामर्थ्याद् राजधातोराकारस्याप्येत्त्वाभ्यासलोपस्य विकल्पः स्यादेवेत्यर्थः । श्रत इति राजादिधातौ न संबध्यते, असंभवादिति यावत् । टुभ्रा टु भ्राट टु भ्लाश्ट दीप्ताविति । दुरित् 'द्वितोऽथुच्' इत्येतदर्थः । अनुदात्तेत इति । एते त्रय इति शेषः । ननु पूर्वं चवर्गान्तष्वनुदात्तेत्सु भ्राजतेः पाठात् पुनरपि तस्येह पाठः किमर्थ इत्यत आह भ्राजतेरिति । तर्हि 'एज़ श्रेज़ भ्राज़ दीप्तौ' इति भ्राजेः पूर्व पाठो व्यर्थ इत्यत आह पूर्व पाठस्त्विति । षत्वाभावार्थ इति । ' श्वभ्रस्ज-' इति षत्वविधौ भ्राजेर्ग्रहणाभावार्थ इत्यर्थः । ननु पूर्व पठितस्यापि षत्वविधौ कुतो न ग्रहणमित्यत श्राह तत्र हीति । षत्वविधौ हीत्यर्थः । एत्त्वाभ्यासलोपयो: पाक्षिकत्वादाह भेजे बभ्राजे इति । द्वावपी. माविति । द्वितीयतृतीयावित्यर्थः । ननु विष्वणतीत्यत्र कथं षत्वम् ? केवलदन्त्याजन्तसादित्वाभावेन षोपदेशतया श्रादेशसकारत्वाभावात् । श्रवष्वणतीत्यत्र इराकवर्गाभ्यां परत्वाभावान्न षत्वस्य प्रसक्तिः, 'सात्पदाद्यो:' इति निषेधाचेत्यत श्राह वेश्व स्वन इतीति । तत्र चकारेण श्रवाचेत्यपि लभ्यत इति भावः । फणादयो गता इति । ध्वनतेः प्रागिति शेषः । ततश्च ध्वनेर्न फणादिकार्यमिति भावः, फणयति । वृत् । सामर्थ्यादिति । फणादिषु पाठसामर्थ्यादित्यर्थः । तत्र हीति । षत्वविधौ हीत्यर्थः । तथा च विभ्राट् । विभ्राड्भ्याम् । पूर्वं पठितस्य तु विभ्राक् विभ्राग्भ्यामित्यादि सिध्यतीति भावः । अस्यमीदिति । मान्तत्वान्न वृद्धिः ।