________________
१६४ ]
सिद्धान्तकौमुदी ।
[ भ्वादि
पूर्वमसौ न पठितः । फणादिकार्यानुरोधात् । २३५४ फणां च सप्तानाम् । ( ६-४- १२५ ) एषां वा एत्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च ! फेतुः फेणुः । पफणतुः पफणुः । फेणिथ, पफणिध । फणयति । वृत् । घटादिः समाप्तः । फणेः प्रागेव वृदित्येके । तन्मते फाणयतीत्येव । राज़ ८२२ दीप्तौ ! विध्याश्रयणादुदाहरणप्रत्युदाहरणयोरुक्तरीत्या व्यत्यासः फलित इत्यर्थः । उपेक्ष्यमिति । 'न पादम्याङ् -' इति सूत्रव्याख्यावसरे 'यमोऽपरिवेषणे' इति मित्त्वं प्रतिषिध्यत इति वृत्तिन्यासयोरुक्तत्वादिति भावः । केचित्तु स्वामिमते पर्यवसितं नियमयन्नित्यादिसामञ्जस्यात्तावेवोपेक्ष्यावित्याहुः । फण गताविति । ननु घटादित्वेऽपि नायं मित्, इतः प्राक् ' स्वन अवतंसने' इत्युत्तरमेव घटादयो मित इत्युक्तेः । श्रतः कथमत्र निषेधः ? तत्राह न इति निवृत्तमसंभवादिति । प्राप्तिं विना मित्त्वस्य निषेधासंभवादिह नेति नानुवर्तते, किंतु मिदित्येवानुवर्तत इत्यर्थः । ननु फण गतावित्यत्र मिनेति यदि नानुवर्तते तर्हि 'न कम्यमिचमाम्' इति निषेधकाण्डात् प्रागेवायं कुतो न पठितः ? तत्राह निषेधात्पूर्वमसौ न पठित इति । कुत इत्यत श्राह फणादिकार्यानुरोधादिति । निषेधकार डात्प्रागेव फणेः पाठे कम्यमिचमादीनामपि फणादिष्वन्तर्भावः स्यादिति भावः । फणां च । 'अत एकहलमध्ये -' इत्यतो लिटीति 'थलि च सेटि' इति चानुवर्तन । 'ध्वसोः -' इत्यतः एदिति, 'गमहन -' इत्यतः कितीति, 'वा जत्रमुत्रसाम्' इयतो वेति च तदाह एषामिति । फणादीनामित्यर्थः । फणामिति बहुवचनात् तदादिलाभः । 'फण गतौ' इत्यत्र मिदित्येवानुवर्तते, नेति तु नानुवर्तत इत्यस्य प्रयोजनमाह फरणयतीति । वृदिति । कर्तरि बिन्तम् । तुधातुरिह समाप्त्यर्थकः, तदाह घटादिः समाप्त इति । फणेः प्रागेवेति । एवं सति फणेरघटादित्वान्न मित्त्वमिति भावः, तदाह तन्मते फारयतीत्येवेति । इति घटादयः । राज़ दीप्ताविति । इत आरभ्य षण्णामेत्त्वाभ्यासलोपौ फणादित्वात्पक्षे भवतः, तदाह परिस्वदयति । प्रपूर्वस्य तु प्रस्वादयतीत्येवं व्यत्यासो ज्ञेयः । उपेक्ष्यमिति । 'न पादम्याङ् -' इति सूत्रे आयामयत इत्युदाहृत्य वृत्तावुक्तं यमोऽपरिवेषण इत्यनेन मित्त्वं प्रतिषिध्यत इति न्यासेऽपि तत्र 'न कम्यमि-' इत्यतो नेत्यनुवर्तत इत्युक्तम् । एवं हि निषेधानन्तरं पाठ उपपद्यते । अन्यथा 'न कमि -' इत्यतः प्रागेव त्रिसूत्रीं पठेतेदिति । भावः । फण गतौ । फणति । लुङि । फाणीत्, अफणीत् । णौ तु 'चिरणमुलो:-' इति वा दीर्घः । अफणि, अफाणि । फणफणम्, फाफाणम् । असंभवादिति । मित्त्वप्राप्तिं विना निषेधासंभवादिह नेत्येतन्न संबध्यते किंतु मित्संज्ञेव,
तदेतदाह