________________
प्रकरणम् ४३ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ १६३
गौ बोध्यम् । स्खदिर् ८२० अवपरिभ्यां च (ग सू ११४ ) मिनेत्येव । अवस्वादयति । परिस्वादयति । अपावपरिभ्य इति न्यासकारः । स्वामी तु 'न कमि -' इति नजमुत्तरत्रिसूत्रयामननुवर्त्य शमः प्रदर्शने इति चिच्छेद । यमस्तु परिवेषणे मित्वमाह । तन्मते 'पर्यवसितं नियमयन्' इत्यादि सम्यगेव । उपसृष्टस्य स्वदेश्वेदवादिपूर्वस्य इति नियमात्प्रस्वादयतीत्याह । तस्मासूत्रद्वये उदाहरणप्रत्युदाहरणयोर्व्यत्यासः फलितः । इदं च मतं वृत्तिन्यासादिविरोधादुपेच्यम् । फण ८२१ गतौ । न इति निवृत्तमसंभवात् । निषेधा'स्खदिरवपरिभ्यां च' इत्यपि गणसूत्रम् । स्खदिरिति इका निर्देशः । व परि आभ्यां परः स्वदधातुर्भिन्नत्यर्थः । 'स्खद स्खदने' इति घटादौ पाठान्मित्त्वप्राप्तिः । परिस्वादयतीति । अत्रोपदेशत्वेन आदेशसकारत्वाभावान्न ष इति भावः । अपावेति । 'स्खदिरपावपरिभ्यः' इति न्यासकारः पपाठेत्यर्थः । तन्मते अपस्खादयतीत्यत्रापि मित्त्वाभावान्न ह्रस्वः । स्वामी त्विति । 'न कम्यमिचमाम्' इत्यत्र श्रुतो नञ् 'शमो दर्शने' 'यमोऽपरिवेषगे' 'स्खदिरवपरिभ्यां च' इति त्रिषु सूत्रेषु नानुवर्तते । शमः प्रदर्शने इति च्छेदः । शमधातुः प्रदर्शने मित्स्यादित्यर्थः । श्रमन्तत्वादेव सिद्धे नियमार्थमिदम् । प्रदर्शन एव शमधातुर्भिस्यात् नतु दर्शने इति स्वामिमतम् । इदं च पर्यवसानगत्या पूर्वमतान्नातिरिच्यते । यमस्त्विति । यमधातोस्तु परिवेषण एव मित्त्वमाहेत्यर्थः । श्रमन्तत्वादेव सिद्धेरपरिवेषण एव यमधातुर्मित् नतु परिवेषण इति फलति । एवं च द्राघयति व्यापारयति वेत्यर्थे मत्त्वाद् हस्वे प्रायमयतीत्येव रूपम् । परिवेषणे तु मित्वाभावाद् हस्वाभावे यामयति ब्राह्मणानिति भवतीति पूर्वमताद्विपरीतं फलति । एवं च पर्यवसितं नियमयन्नित्यत्र यमेरपरिवेषणार्थत्वान्मित्त्वे ह्रस्वो निर्बाधः, तदाह तन्मत इति । स्वदेर्घटादि - त्वादेव मित्त्वसिद्धेः ‘स्खदिरवपरिभ्यां च' इति सूत्रमपि नियमार्थम् । सोपसर्गस्य चेत् स्खदेर्मित्त्वं तर्हि अवपरिभ्यां परस्यैव मित्त्वं न तूपसर्गान्तरादिति । एवं च प्रस्स्वादयतीत्यत्र मित्त्वाभावान्न हस्वः । श्रवस्खदयति परिस्खदयति इत्यत्र तु मित्त्वा द्धस्व इति फलति, तदाह उपसृष्टस्येति । सोपसर्गस्येत्यर्थः । पूर्वमते तु व परिभ्यां परस्य मित्त्वनिषेधादवस्खादयति परिस्खादयतीति न ह्रस्वः । प्रस्स्वदयतीत्यत्र तु अवपरिपूर्वकत्वाभावेन मित्त्वनिषेधाभावाद्धस्व इति विपरीतम् । तस्मादिति । ‘यमोऽपरिवेषणे’ ‘स्खदिरवपरिभ्यां च' इति सूत्रद्वये उक्तरीत्या मित्त्वनियम
>
शतरि शप्प्रत्यये गुणे च ज्ञेयम् । व्यत्यासः फलित इति । स्वामिमते त्वपरिवेषणे आयमयति । परिवेषणे तु यामयति ब्राह्मणान् । श्रवादिपूर्वस्य स्खदेरवस्खदयति ।