________________
१९२] सिद्धान्तकौमुदी। [ भ्वादि. चौरादिकस्य । धातूनामनेकार्थत्वाच्छ्रवणे वृत्तिः, शातिवत् । यमो १६ अपरिवेषणे (ग सू १९३)। यच्छति जनतोऽन्यत्र मिन्न स्यात् । श्रायामयति । द्वाघयति व्यापारयति वेत्यर्थः। परिवेषणे तु यमयति ब्राह्मणान् । भोजयतीत्यर्थः । 'पर्यवसितं नियमयन्' इत्यादि तु नियमवच्छब्दात्तस्करोतीति त्यर्थः । शमेय॑न्तात् क्त्वो ल्यपि कृते 'ल्यपि लघुपूर्वात्' इति णरयादेशः । कथमिति । तर्हि । दर्शनार्थकस्यैव शर्मित्त्वनिषेधे सति ?णु' इत्यर्थे मित्वाद्धस्वप्रसङ्गान्निशामयति कथमित्याक्षेपः । समाधत्ते शम आलोचन इति चौरादिकस्येति । निशामयेति रूपमिति शेषः । 'नान्ये मितोऽहेतौ' इति तस्य मित्त्वनिषेधाद् न ह्रस्व इति भावः । ननु चौरादिकस्य शमेरालोचनार्थकत्वात् कथं श्रवणे वृत्तिरित्यत आह धातूनामिति ! शाम्यतिवदितिः । श्यन्विकरणस्य शमेरुपशमार्थकस्य यथा दर्शने वृत्तिस्तद्वदित्यर्थः । 'यमोऽपरिवेषणे' इत्यपि गणसूत्रम् । भोजनपात्रे ओदनापूपादिभोज्यद्रव्याणां स्थापनं परिवेषणम् , तदाह भोजनतोऽन्यत्रेति । भुक्त्यनुकूलपरिवेषणादन्यत्रेत्यर्थः । 'यम उपरमे' इत्यस्य उपसर्गवशात् परिवेषणे ततोऽन्यस्मिन्नप्यर्थे वृत्तिः संभवति । तत्र अपरिवेषणे वृत्ती मित्त्वं नेत्यर्थः । आयामयतीति । अत्रापरिवेषणे वृत्तेर्न मित्त्वमिति भावः, तदाह द्राघयतीति । दीघींकरोतीत्यर्थः । व्यापारयतीति । प्रवर्तयतीत्यर्थः । यमयति ब्राह्मणानिति । परिवेषणार्थकत्वान्मित्त्वमिति भावः तदाह भोजयतीति । भुञ्जते ब्राह्मणाः, तान्परिवेषणेन प्रवर्तयतीत्यर्थः । न पर्यवसित नियमयन्नित्यत्र अपरिवेषणार्थकतया मित्त्वाभावात्कथं ह्रस्व इत्यत आह पर्यवसितमित्यादि । नियमनं नियमः। 'यमः समुपनिविषु च' इति भावे अप्प्रत्ययः, तस्मान्मतुप् । नियमवच्छब्दात्तत्करोतीति णिचि 'विन्मतो क्' इति मतुपो लुकि ण्यन्ताल्लटश्शतरि गुणायादेशयोर्नियमयच्छब्द इति भावः । वस्तुतस्तु मतुपो लुकि टिलोपस्याप्राप्त्या 'अचो णिति' इति वृद्धौ पुगागमापत्तिः । ततश्च नियमवदित्यर्थकाद् अर्शश्राद्यजन्ताद् नियमशब्दात् 'तत्करोति' इति णिचि इश्वत्त्वाहिलोपे तस्य स्थानिवात्वादुपधावृद्धयभावे नियमयन्निति समर्थनीयमिति शब्देन्दुशेखरे स्थितम् । वनयति । वामयति, वमयति । शाम्यतिवदिति । यथा शाम्य तेर्निशामयतीत्यादौ दर्शने प्रयुज्यते तथा चुरादिः शमधातुरपि श्रवणे भविष्यतीत्यर्थः । यमोऽपरिवेषणे । यच्छतिरिति । यम उपरमे इत्ययं पातुर्भोजनातोऽन्यत्र । भोजनाशब्दो 'न्यासश्रन्थो युच्' इति युजन्तो ज्ञेयः । परिवेषणमिह भोजनानुकूलव्यापारस्ततोऽ. न्यस्मिन्नर्थे मिनिषेधः । नियमयनिति । नियमवच्छब्दारिणचि विन्मतोलुंकि