________________
प्रकरणम् ४३] बालमनोरमा तत्त्वबोधिनीसहिता। [१६१ इति सूत्रे 'वा चित्तविरागे' (सू २६०५) इत्यतो वा इत्यनुवयं व्यवस्थित. विभाषाश्रयणादिति वृत्तिकृत् । एतेन 'रजो विश्रामयन् राज्ञाम्' 'धुर्यान्विश्रामयेति सः' इत्यादि व्याख्यातम् । 'ग्लास्त्रावनुवमा च' (ग सू १६०)। अनुप. सर्गादेषां मित्वं वा स्यात् । श्राद्ययोरप्राप्ते इतरयोः प्राप्ते विभाषा । 'न कम्यमिचमाम्' (ग सू १६१)। श्रमन्तत्वात्प्राप्तं मित्त्वमेषां न स्यात् । कामयते । श्रामयति । चामयति । शमो ८१८ दर्शने ( ग सू १६२)। शाम्यतिर्दर्शने मिन्न स्यात् । निशासयति रूपम् । अन्यत्र तु 'प्रणयिनो निशमय्य वधूः कथा'। कथं तर्हि 'निशामय तदुत्पत्ति विस्तराद्गदतो मम' इति । शम पालोचने इति मित्त्वाद् ह्रस्व प्रसङ्गः । नच क्रमणं काम इति घजन्तात् 'तत्करोति-' इति णावुक्तरीत्या हस्वाभाव इति समाधानं संभवति, क्रमपनि हि 'नोदात्तोपदेशस्य-' इति वृद्धिप्रतिषेधे सति क्रम इत्येव भवति, नतु काम इति कृत्वा उक्लसमाधानासंभवादित्यमित्याक्षिपति कथमिति । समाधने मितामिति । "मितां ह्रस्वः' इति सूत्रे वेत्यनुवर्त्य मित्त्वाभावे संक्रामयतीति रूपमित्यन्वयः । ननु कदाचिद् ह्रस्वो दुरि इत्यत आह व्यवस्थितेति । तथा चात्र ह्रस्वाभाव एवाश्रीयत इति भावः। वृत्तिदिति । भाष्ये तु नैतद् इति भावः । एतेनेति । व्यवस्थितविभाषाश्रयणेनेत्यर्थः । 'ग्लानावनुवमा च' इत्यपि गणसूत्रम् । प्रथमार्थे षष्ठी । अनुपसर्गादिति मित इति वेति चानुवर्तते, फलितमाह अनुपसर्गादिति । प्राद्ययोरिति । ग्लाना इत्यनयो. रघटादित्वादप्राप्त मित्त्वे इतरयोर्वनुवमोः प्राप्ते मित्त्वे विभाषेत्यर्थः। तत्र वनेः 'वनु च नोच्यते' इति घटादौ पाठाद्वमेस्त्वमन्तत्वान्मित्त्वप्राप्तिरिति बोध्यम् । 'न कम्य. मिचमाम्' इति 'शमो दर्शने' इति च गणसूत्रम् । दर्शनं चाक्षुषज्ञानम् । 'शम उपशमे' इति देवादिकः श्यन्विकरण एवात्र गृह्यते, नतु 'शम भालोचने' इति चौरादिकः, 'नान्ये मितोऽहेतौ' इति तस्य मित्त्वनिषेधात् , तदाह शाम्यतिरिति । निशामयति रूपमिति । पश्यतीत्यर्थः । उपशमार्थकस्यापि अनेकार्थकत्वाद् दर्शने वृत्तिः। अन्यत्रेति । दर्शनादन्यत्रेत्यर्थः । निशमय्येति । श्रावयित्वे. कथं संक्रामयतीति । क्रमेः 'नोदात्तोपदेशस्य-' इति वृद्धिप्रतिषेधाद् घनि क्रम इत्येव भवति न तु काम इति पूर्वोक्तसमाधानस्यात्रासंभवात्पृथक् प्रश्नः । व्यवस्थितविभाषेत्यादि । क्वचिद् णौ मिता ह्रस्वो न प्रवर्तत इति भावः । वृत्तिकृदिति । केचित्तु घन्तात्क्रमशब्दात्प्रज्ञाद्यणि कामशब्दं स्वीकृत्य तस्मात् 'तत्करोति' इति णौ मंकामयतीति समादधत इति भावः । इतरयोः प्राप्त इति । वनेः पूर्व पाठाद्वमेरमन्तत्वाच्चेति भावः । ग्लापयति, ग्लपयति । नापयति, स्नपयति । वानयति,