________________
१६०] सिद्धान्तकौमुदी।
[भ्वादिः मन्ताश्च' (ग सू १८८)। मित इत्यनुवर्तते । जष् इति पित्त्वनिर्देशाजीर्यतेग्रहणम् । जुणातेस्तु जारयति । केचित्तु 'जनीजष्णसु-' इति पठित्वा ष्णसु निरसने इति देवादिकमुदाहरन्ति । 'ज्वलह्वलझलनमामनुपसर्गाद्वा' (ग.सू.१८६) एषां मित्त्वं वा । प्राप्तविभाषेयम् । ज्वलयति, ज्वालयति । उपसृष्टे तु नित्यं मित्वम् । प्रज्वलयति । कथं तर्हि प्रज्वालयति उसामयतीति । घा. न्तात् 'तस्करोति-' इति णौ । कथं संक्रामयतीति । 'मिता हस्वः' (सू २५६८) कथं मितस्ते स्युरित्यत आह । मित्संज्ञका इति । मित्कार्यभाज इत्यर्थः । जनीषिति । गणसूत्रम् । जनी जष् कसु रञ्ज् एषां द्वन्नात्प्रथमाबहुवचनम् । अम् अन्ते येषां ते अमन्ताः, क्रमिगम्यादयः । एते अघटादित्वेऽपि मित इत्यर्थः । जीयतेरिति । 'जृष वयोहानौ' इति श्यन्विकरणस्येत्यर्थः जणास्त्विति । ज़ वयोहानौ इति नाविकरणस्य षित्त्वाभावनात्र प्रहणाभावान्न मेत्त्वमिति भावः । उदाहरन्तीति । तन्मते जूणातेरपि मित्त्वमिति भावः। वलबल । इत्यपि गणसूत्रम् । प्राप्तविभाषेयमिति । ज्वलहलह्मलां घटादित्वान्नमन्तित्वाच मित्त्वस्य प्राप्तेरिति भावः। उपसष्टे त्विति । सोपसगै वित्यर्थः । कथं तहीति । अनुपसर्गादिति विशेषणे सति ज्वलेनमेश्च णौ मित्त्वविकल्पाभावाजनीषिति मित्त्वाद् ह्रस्वो नित्यः स्यादित्याक्षेपः । समाधत्ते घान्तादिति । तत्करोतीति गावित्यनन्तरं समाधेयमिति शेषः । प्रज्वलनं प्रज्वालः। उन्नमनम् उन्नामः । भावे धञ् । उपधावृद्धिः । प्रज्वालं करोतीति उन्नामं करोतीति चार्थे 'तत्करोति तहाचष्टे' इति णिचि 'णाविष्ठवत्' इति इष्टवत्त्वात् टिलोपे सति तस्य स्थानिवत्त्वाद् मित्त्वप्रयुक्तह्रस्वाभावे प्रज्वालि उन्नामि इत्याभ्यां लटि तिपि शपि गुणे अयादेशे प्रज्वालयति उन्नामयतीति रूप इति भावः । ननु संपूर्वात् क्रमेणों संक्रामयतीति रूपमिष्यते । तत्र अमन्तत्वेन दयो मितः । मिसंज्ञा इत्यर्थ इति । अन्ये तु मकारानुब धा इति व्याचक्षते। घट चेष्टायामिति प्रत्येकं पाठे गौरवादेकत्रैव सर्वेषां मित्संज्ञा मकारानुबन्धकत्वं वाऽनेन सूत्रेण विधीयत इति भावः । जनीजष् । जनीप्रादुर्भावे, पृष् क्योहानौ, कसु हरणदीप्त्योः, त्रयोऽपि दिवादयः । रज रागे, देवादिको भौ वादिकश्च । अमन्ताः क्रमिगमीत्यादयः । जनयति । जरयति। कसयति । रजयति मृगान् । रञ्जयति पक्षिणः । क्रमयति । गमयति । रमयति । ज्वलह्वल । एषां मित्त्वमिति । मित इत्यनुवृत्तस्येह भावप्रधानता । अनुपसर्गादिति तु षष्ठ्यर्थेयं पञ्चमीत्येवं क्लेशेन व्याख्येयमिति भावः । 'नमोनुपसर्गाद्वा' इति पाठान्तरम् , तत्र न कश्चिक्लेशः प्राप्तविभाषेति । ज्वल दीप्तौ, ह्वल ह्मल चलने इति त्रयाणां पूर्वपठितत्वान्नमेस्त्वमन्तत्वादिति भावः ।