________________
प्रकरणम् ४३] बालमनोरमात्तत्त्वबोधिनीसहिता। [१८६ वेत्यर्थः । अन्यत्र मादयति । चित्तविकारमुत्पादयतीत्यर्थः। ध्वन ८१६ शन्दे । भाव्ययं मित्त्वार्थमनूयते । धनयति घण्टाम् । अन्यत्र ध्वानयति । अस्पष्टाक्षरमुच्चारयतीत्यर्थः । अत्र भोजः 'दलिवलिस्खलिरणिध्वनित्रपितपयश्च' इति पपाठ । तत्र ध्वनिरणी उदाहृतौ । दल विशरणे, वल संवरणे, स्खल संचलने, त्रपूष् लजायाम् इति गताः । तेषां णो दलयति, वलयति, स्खलयति, अपयति । वै क्षये इति वक्ष्यमाणम्य कृतावस्य पुका निर्देशः । क्षपयति । स्वन ८.. अवतंसने । शन्दे इति पठिष्यमाणस्यानुवादः । स्वनयति । अन्यत्र स्वानयति । 'घटादयो मितः' (ग सू'१८७)। मित्संज्ञका इत्यर्थः । 'जनीज़नसुरओऽ. ननु लडादौ शपि मदतीत्यादि स्यादित्यत आह देवादिकस्येति । तथा च श्यन्विकरण एवायमिति भावः । ध्वन शब्द इति । पूर्वमनुनासिकान्तेषु अणरणे. त्यत्र ध्वणधातुर्मूर्धन्यान्तः पठितः । अयं तु दन्त्यान्त इति भेदः। भावीति । ज्वलादौ 'ध्वन शब्दे' इति पठिष्यमाण एवात्र ध्वन्यात्मके अनुच्चारणजन्ये शब्दने मित्त्वार्थमनूद्यते इत्यर्थः । धातुभेदे तु मित्त्वतदभावौ स्यातामिति भावः । ध्वनयति घण्टामिति । शब्दायमानां करोतीत्यर्थः । अन्यत्रेति । अस्पष्टोचारणात्मके शब्दने इत्यर्थः । अत्रेति । घटादावित्यर्थः । तत्रेति । दलिवल्यादिग्वित्यर्थः । उदाहृताविति । घटादाविति शेषः। तत्र ध्वनिरनुपदमेवोदाहृतः। रणिस्तु कण रण गतावित्यत्रेति बोध्यम् । भोजमते प्रागनयोः पाठो नेति न पौनरुक्त्यम् । गता इति । भ्वादौ पठिता इत्यर्थः । इह मित्त्वार्थमनूवन्त इति शेषः। धात्वन्तरत्वे तु मित्त्वतदभावौ स्यातामिति भावः । ननु क्षपेरत्र पाठान्मित्त्वे णो ह्रस्वे क्षपयतीति वक्ष्यति । अस्त्वेवम् । तथापि क्ष क्षये इति भ्वादौ पठिष्यमाणस्य णौ प्रात्वे पुकि क्षापयतीत्यपि स्यात् , वैधातोः क्षपीत्यनुवादासंभवात् , तत्राह दे इत्यादि । णौ प्रात्वे पुकि मित्त्वाद् ह्रस्वे सति क्षपीति तै इत्यस्यानुवादसंभव इति भावः । स्वन अवतंसन इति । अवतंसनम् अलंकृतिः । पठिष्यमाणस्येति । घटादिगणादूचं स्वन शब्द इति पठिष्यमाणस्य स्वनेरवतंसनेऽर्थे णौ मित्त्वार्थोऽत्रानुवाद इत्यर्थः । धात्वन्तरत्वे तु मित्त्वतदभावौ स्यातामिति भावः । स्वनयतीति । भूष. यतीत्यर्थः । अन्यत्रेति । अवतंसनादन्यत्र शब्देऽर्थे णौ मित्त्वाभावान्न ह्रस्व इति भावः । घटादयो मित इति । गणसूत्रम् । ननु घटादिषु मकारानुबन्धादर्शनात् ध्वनिरणी उदाहृताविति । ध्वनिरव्यवधानेनोदाहृतः, रणिस्तु कण रण गतावित्यत्रेत्यर्थः । स्वन अवतंसने । अवतंसनं भूषणम् । स्वनयतीति । भूषयतीत्यर्थः । अस्वनीत् , अस्वानीत् । अस्वनि , अस्वानि। स्वनंस्वनम् , स्वानंस्वानम् । घटा