________________
१८५]
सिद्धान्तकौमुदी ।
[ भ्वादि •
इति चौरादिकस्य स्वार्थे णिजभावे मिवार्थोऽयमनुवादः । श्रनेकार्थस्वादूर्जेरर्थे वृत्तिः । छदन्तं प्रयुङ्क्ते छदयति । बलवन्तं प्राणवन्तं वा करोतीत्यर्थः । अन्यत्र छादयति । श्रपवारयन्तं प्रयुङ्क्ते इत्यर्थः । स्वार्थे णिचि तु छादयति । बलीभवति प्राणीभवति श्रपवारयति वेत्यर्थः । जिह्वोन्मथने लडिः ८१४ । 'लड विलासे' इति पठितस्य मिस्वार्थोऽनुवादः । उन्मथनं क्षोभणम् । जिह्वाशब्देन षष्ठीतत्पुरुषः । खडयति जिह्वाम् । तृतीयातत्पुरुषो वा । लडयति जिह्वया । श्रन्ये तु जिह्वाशब्देन तद्व्यापारो लचयते । समाहारद्वन्द्वोऽयम् । लडयति शत्रुम् । asयति दधि । अन्यत्र लाडयति पुत्रम् । मदी ८१५ हर्षग्लेपनयोः | ग्लेपनं दैन्यम् । दैवादिकस्य मिस्वार्थोऽयमनुवादः । मदयति । हर्षयति ग्लेपयति रित्यत आह अनेकार्थत्वादिति । ननु स्वार्थणिजभावे सति मित्त्वं किमर्थमित्यत यह छदन्तं प्रयुङ्क्ते छदयतीति । अत्र हेतुमणिचि ह्रस्वः । 'नान्ये मितः - ' इति निषेधस्तु हेतुमणिचि नेति भावः । अन्यत्रेति । ऊर्जनादन्यत्र पवार इत्यर्थः । स्वार्थे णिचि त्विति । 'नान्ये मितः -' इति निषेधस्य तत्र प्रवृत्तेरिति भावः । जिह्वोन्मथने लडिरिति । इका निर्देशोऽयम् । लडधातुर्जिह्वोन्मथने मिदित्यर्थः । लडेति । 'लड विलासे' इति टवर्गान्तेषु भ्वादौ पठितस्य जिह्वोन्मथनेऽर्थे मित्त्वार्थोऽनुवाद इत्यर्थः । एवं च धातुभेदाभावात् सर्वथैव मित्त्वकार्थं भवति । गणभेदाद्धातुभेदे मित्त्वतदभावयोर्विकल्पः स्यादिति भावः । लडयति जिह्वामिति । रसनां रसान् ज्ञापयतीत्यर्थः । ' गतिबुद्धि-' इति द्विकर्मकोऽयम् । लडयति जिह्वयेति । देवदत्तो रसान् जानाति तजिह्वया ज्ञापयतीत्यर्थः । तद्वयापार इति । शब्दप्रयोगादिजिह्वाव्यापार इत्यर्थः । समाहारेति । जिह्वा च उन्मथनं चेति समाहारद्वन्द्वः । जिह्वाव्यापारे उदाहरति लडयति शत्रुमिति । गेहेशूर इत्यादिशब्दप्रयोगेण गर्हत इत्यर्थः । उन्मथनं लोडनम् इत्यभिप्रेत्योदाहरति लडयति दधीति | विलोडयतीत्यर्थः । अन्यत्रेति । जिह्वोन्मथनादन्यत्रेत्यर्थः । लाडयति पुत्रमिति । क्रीडयतीत्यर्थः । ग्लेपनं दैन्यमिति । दीनीभवनमित्यर्थः । चुराद्यन्तर्गणो यौजादिकः स्वार्थे । णिजभाव इति । श्रधृषाद्व' इति वैकल्पिकत्वादिति भावः । लडयति जिह्वामिति । जिह्वां ज्ञापयतीत्यर्थः । जिह्वयेति । जिह्वया पदार्थान्तरं ज्ञापयतीत्यर्थः । जिह्वाव्यापारे उदाहरणमाह लडयति शत्रुमिति । शत्रुमुद्दिश्य गालनादि करोतीत्यर्थः । लडयति दधीति । उन्मध्नाति । विलोडयतीत्यर्थः । केचित्तु जिह्वाव्यापारे लडयति दधि, उन्मथने तु लडयति शत्रुमिति व्यत्यासेन योजयन्ति । लाडयति पुत्रमिति । शर्करादिदानेनानु कूलय यतीत्यर्थः ।
1