________________
प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [१८७ मेति' इति 'तज्ज्ञापयत्याचार्यः' इति च। शृणु। माधवमते अचाक्षुषज्ञाने मित्वाभावात् । ज्ञापनमात्रे मित्त्वमिति मते तु ज्ञा नियोगे इति चौरादिकस्य, धातूनामनेकार्थत्वात् । निशानेविति पठतां हरदत्तादीनां मते तु न काप्यनुपपत्तिः। कम्पने चलिः ८१२ । चल कम्पने इति ज्वलादिः। चलयति शाखाम् । कम्पनादन्यत्र तु शीलं चालयति । अन्यथा करोतीत्यर्थः । हरतीत्यर्थ इति स्वामी । सूत्रं चालयति । क्षिपतीत्यर्थः । छदिर ८१३ ऊर्जने। छद अपवारणे मित्त्वाद्धस्वप्रसङ्गादिति भावः। शृरिवति । उत्तरमिति शेषः । मित्त्वाभावादिति। ह्रस्वो नेति शेषः । विज्ञापनेत्यत्र तज्ज्ञापयतीत्यत्र च अचाक्षुषमवाssत्मज्ञानं विवक्षितमिति भावः । ननु ज्ञापनमात्रे मित्त्वमिति मत विज्ञापनेत्यत्र तज्ज्ञापयतीत्यत्र च मित्त्वं दुर्वारमित्यत आह ज्ञापनमात्र इति । चौरादिकस्येति । विज्ञापनेति, ज्ञापयतीते च रूपमिति शेषः । 'नान्ये मितोऽहेतौ' इति निषेधान्न तस्य मित्त्वमिति भावः। ननु नियोगार्थस्य तस्य कथं ज्ञापने वृत्तिरित्यत आह धातूनामिति । न कापीति । विज्ञापनेत्यत्र ज्ञापयतीत्यत्र च ज्ञापनार्थवृत्तित्वाज्ज्ञापनस्य च मारणतोषणतीदणीकरणान्यत्वान्न तस्मिन्नर्थे ज्ञाधातोर्मित्त्वप्रसक्तिरिति भावः । एवं च माधवमते बोधने ज्ञाधातोः ज्ञापयतीत्युपधादीर्घः, ज्ञपधातोस्तु ज्ञपयतीत्युपधाह्रस्व इति रूपद्वयमपि साध्विति स्थितम् । कम्पने चलिरिति । इका निर्देशोऽयम् । चलधातुः कम्पने मिदित्यर्थः । ज्वलादिरिति । तस्य चलेः कम्पने मित्त्वार्थोऽत्रानुवाद इति भावः। शीलं चालयतीति । अत्र कम्पनार्थकत्वाभावान्न मित्त्वमिति भावः, तदाह अन्यथा करोतीत्यर्थ इति । धातूनामनेकार्थत्वादिति भावः । छदिर्जने इति । इका निर्देशोऽयम् । छदधातुरूर्जने मिदित्यर्थः। ऊर्जनं बलवत्करणं प्राणनं वा, ऊर्ज बलप्राणनयोरित्युक्तः । अन्यत्र पठितस्यात्राथविशेषे गौ मित्त्वार्थोऽनुवाद इति सिद्धान्तः । छदधातुस्त्वयं चुरायन्तर्गणे युजादौ पठितः । तस्यात्रानुवादो व्यर्थः, 'नान्ये मितोऽहेतो' इति ज्ञपादिपञ्चकव्यतिरिक्तस्य चुरादौ मित्त्वनिषेधादित्यत आह छद अपवारण इति । चुराद्यन्तर्गणयुजादिपठितस्य 'श्रा धृषाद्वा' इति खार्थिकणिजभावपक्षे ऊर्जनेऽर्थे मित्त्वार्योऽनुवाद इत्यर्थः । हेतुमरिणचि इत्यर्थः । स्वार्थिकणिचि सत्येव 'नान्ये मितः-' इति निषेधप्रवृत्तेरिति भावः । नन्वपवारणार्थकस्य छदेः कथमूर्जने वृत्तिकथमिति । ज्ञाधातोपिधातोश्च णौ मित्त्वाद् ह्रस्वेन भवितव्यमिति भावः । मित्त्वाभावादिति । एवं च बोधने ज्ञाधातोः ज्ञापयति, ज्ञपधातोस्तु ज्ञपयतीति रूपद्वयं माधवमते बोध्यम् । छदिरूजने । ऊर्जे बलप्राणनयोः। अत्र छदिर्मित् ।
१ एतद् वाक्यं कचिन्नास्ति ।