________________
१८६ ]
सिद्धान्तकौमुदी |
[ भ्वादि
निशामनं चाचुषज्ञानम् इत्ति माधवः । ज्ञापनमात्रम् इत्यन्ये । निशानेषु इति पाठान्तरम् । निशानं तीक्ष्णीकरणम् । एष्वेवार्थेषु जानातिर्मित् । ज्ञप मिच इति चुरादौ । ज्ञापनं मारणादिकं च तस्यार्थः । कथं 'विज्ञापना भर्तृषु सिद्धित्रेति । अर्थनिर्देशस्योपलक्षणत्वादिति भावः । मारणेति । मारणे तोषणे निश:मने च ज्ञाधातुर्वर्तत इत्यर्थः । अक्षतस्य मारणे संपूर्वकस्यैव आाधातोः प्रयोगः । चानुषज्ञानमिति । निपूर्वकात् शम आलोचने इत्यस्मात् चौरादिकण्यन्ताद् ल्युटि निशामनशब्दस्य निष्पत्तेरिति भावः । ज्ञापनमात्रमिति । उपसर्गवशादिह ज्ञापने वृत्ति., चाक्षुषत्वं च ज्ञानस्य न विवक्षितमिति भावः । निशानेष्वितीति । 'मारणतोषणनिशानेषु ज्ञा' इति पाठान्तरमित्यर्थः । ननु ज्ञाधातोरस्माल्लडादौ शपि 'ज्ञाजनोर्जा' इति जादेशे जाति जात इत्यादि स्यादित्यत आह एष्वेवेति । ज्ञा अवबोधने इति श्नाविकरणस्यैव मारणादिष्वर्येषु णौ मित्त्वार्थमिहान वादात् श्राविकरण एवायमिति भावः । जानाते: मित्त्वफलं तु णौ ह्रस्वः - पशुं संज्ञपयति, अक्षतं मारयतीत्यर्थः । हरिं ज्ञपयति, संतोषयतीत्यर्थः । रूपं ज्ञपयति, माधवमते दर्शयतीत्यर्थः । मतान्तरे तु बोधयतीत्यर्थः । शरं ज्ञपयति तीक्ष्णीकरोतीत्यर्थः । ननु माधवमत बोधयतीत्यर्थे ज्ञपयतीति कथं मित्त्वम्, तन्मते चाक्षुषज्ञानस्यैव निशामनशब्दार्थत्वादित्यत आह शप मिच्चेति चुरादाविति एवं च चौरादिकं ज्ञाधातुमादाय बोधनेऽप्यर्थे ज्ञपयतीति ह्रस्वः संगच्छत इति भावः । ननु चौरादिकस्यापि ज्ञपेर्मारणतोषणनिशामनेष्वेवार्थेषु मित्त्वमस्तु तत्रार्थान्तरनिर्देशाभावात् । तथा च माधवमते कथं बोधनेऽर्थे मित्त्वमित्यत श्राह ज्ञापनं मारादिकं च तस्यार्थ इति । ज्ञापन मारणं तोषणं निशामनं च तस्य चौरादिकस्य ज्ञपधातोरर्थो माधवमते इत्यर्थः । कथमिति । ज्ञाथ तोपधातोश्च णौ
1
1
1
षादुभयोः प्रवृत्तिरप्यत्र युक्तैवेति भावः । मारणतोषण । निशामनमित्यस्य शम आलोचन इत्यस्मान्निष्पन्नत्वादाह चाक्षुषं ज्ञानमिति । एष्वथैष्विति । पशुं संज्ञपयति, मारयतीत्यर्थः । विष्णुं विज्ञपयति, संतोषयतीत्यर्थः । संज्ञपयति रूपम्, माधवमते दर्शयतीत्यर्थः । मतान्तरे तु बोधयतीत्यर्थः । प्रज्ञपयति शरन्, तीक्ष्णीकरोतीत्यर्थः,। स्यादेतत् — निशामनं ज्ञापनमात्रमिति वदतां मते 'श्लाघन्स्था-' इति सूत्रे ज्ञीप्स्यमानो बोधयितुमभिप्रेत इति वृत्तिप्रन्थः संगच्छतां नाम, माधवमते तु तद्ग्रन्थस्य का गतिरित्यत आह ज्ञपमिच्चेति । ज्ञापनमिति । एवं च वृत्तिप्रन्थो माधवमतेऽपि संगच्छत इति भावः । मारणादिकं चेति । एतच्च मतान्तराभिप्रायेणोक्तम् । चुरादिषु तु 'ज्ञप मिच्च, अयं ज्ञाने ज्ञापने च वर्तते' इति वच्यमाणत्वात् ।