________________
प्रकरणम् ४३] बालमनोरमा तत्त्वबोधिनीसहिता। [१८५ इति कृतात्वस्य श्रा इस्यादादिकस्य च सामान्येनानुकरणम् । 'लुग्विकरणालु. ग्विकरणयोरलुग्विकरणस्य' (११) 'लक्षणप्रतिपदोक्योः प्रतिपदोकस्यैव ग्रहणम्' (प ११४) इति परिभाषाभ्याम् । श्रपयति । विक्लेदयतीत्यर्थः । पाकादन्यत्र श्रापयति । स्वेदयतीत्यर्थः । मारणतोषणनिशामनेषु ज्ञा ८११। पठ्यते । तत्रार्थनिर्देशो न विवक्षितः । क्रयादिषु पठिष्यमाणस्य नृधातोर्नयादन्यत्र विद्यमानस्य नयेऽर्थे मित्त्वार्थोऽनुवाद इत्यर्थः । तथा च नाविकरण एवायम् । नृणातेर्धात्वन्तरत्वाभावान्न मित्त्वतदभावौ, अपि तु नित्यमेव मित्त्वम् । श्रा पाक इति । नन्वत्र भ्वादौ पठ्यमानाच्छायतेः, उत्तरत्र अदादौ पठिष्यमाणाच्च श्रातेरन्य एव यदि कश्चन स्वतन्त्रो धातुघंटादौ निर्दिश्येत तदा प्रकृते लटि शपि श्रातीति रूपसंपत्त्या लुग्विकरणस्थेन श्रा पाके इत्यनेन पौनरुत्यमित्यत आह धै इतीति । अग्रे भ्वादिगणे झै पाक इति पठिष्यते । तस्य कृतात्वस्यानुकरणमित्यन्वयः। तथा च तस्यैव श्रेधातोरनेक र्थकतया पाके वृत्तस्य मित्त्वार्थमत्रानुवादात् शपि श्रायतीत्यादि रूपम् । एतच्च 'भृतं पाके' इति सूत्रे भाष्यकैयटयोः स्थितम् । एवं च सति संभवे अन्यत्र पठितानामिह मित्त्वार्थोऽनुवाद इति सिद्धान्तादले भ्वादौ । पाक इत्यस्य पौनरुक्त्यं न शङ्कथम् । नन्वेवं सति 'श्रे पाके' इत्येवात्र कुतो न पठितमित्यत आह श्रा इत्यादादिकस्य चेति । ननु लाक्षणिकत्वात् 'त्रै पाके' इति भौवादिकस्य कृतात्वस्याप्यनुवाद इति न युज्यत इत्यत आह लुग्विकरणेत्यादि परिभाषाभ्यामित्यन्तम् । परिभाषाभ्यामुभयोरनुकरणमित्यन्वयः । 'स्वरतिसूतिसूयति-' इति सूत्रे सू इति पठितेऽपि द्वयोर्ग्रहणे सिद्ध सूतिसूयत्योः पृथग्ग्रहणं 'लुग्विकरण-' इति परिभाषां ज्ञापयतीत्याहुः । प्रतिपदोक्तपरिभाषा तु न्यायसिद्धत्युक्तमेव । श्रपयतीति । श्रेघातोर्णिचि 'आदेच उपदेश-' इत्यात्वे 'अर्तिह्री-' इति पुकि मितां ह्रस्वः । श्राधातोस्तु स्वत एवाऽऽदन्तत्वारिणचि पुकि ह्रस्वः । पाकादन्यनरंनरम् । नारंनारम् । ) इति । अयं हि वक्ष्यमाणो भौवादिकः। लुग्विकरणेति। अत्र व्याचक्षते-'स्वरतिसूति-' इति सूत्रे सूत् इति पठितेनापि द्वयोर्ग्रहणे सिद्ध सूतिसूयत्योः पृथग्ग्रहण व्यर्थ सदिमा परिभाषां ज्ञापयति । नन्वलुग्विकरणं बलीय इति वैपरीत्यं किं न स्यादिति शङ्कयम् , इष्टानुरोधात् । सूङ् इति पठिते खरतिसाहचर्यादलुग्विकरणस्यैव ग्रहणं स्यान तूभयोरित्यपि न शङ्कयम् , साहचर्यस्यानित्यत्वात्। तस्मात्पृथग्ग्रहणं व्यर्थ सज्ज्ञापकमेवेति । लक्षणप्रतिपदोक्तपरिभाषा तु न्यायसिद्धा, लाक्षणिकं हि विलम्बितोपस्थितिकम् , प्रतिपदोक्तं तु शीघ्रोपस्थितिकमिति।परिभाषाभ्यामिति । यद्यप्युक्तपरिभाषयोः परस्परविरोधेनाप्रवृत्तावपीष्टं सिध्यति, तथाप्यविशे