________________
१८४ ] सिद्धान्तकौमुदी।
[ भ्वादियति । ह्वल ८०५ बल ८०६ चलने । प्रह्वलयति । प्रह्मलयति । स्मृ ८०७ प्राध्याने । चिन्तायां पठिष्यमाणस्य प्राध्याने मिस्वार्थोऽनुवादः। श्राध्यानमुत्कण्ठापूर्वकं स्मरणम् । दृ ८०८ भये । दृ विदारणे इति क्रयादेरयं मित्त्वार्थोऽनुवादः । दृणन्तं प्रेरयति दरयति । भयादन्यत्र दारयति । धात्वन्तरमेवेदमिति मते तु दरतीत्यादि । केचिवटादौ 'प्रत्स्मृदृत्वर-' (सू २५६६) इति सूत्रे च दृ इति दीर्घस्थाने हस्वं पठन्ति । तश्चेति माधवः । न ८०६ नये । क्रयादिषु पठिष्यमाणस्यानुवादः । नयादन्यत्र नारयति । श्रा ८१० पाके । त्रै यार्थमिति । 'ज्वलितिकसन्तेभ्यो णः' इति णप्रत्ययार्थ ज्वलादिगणे पठिष्य. माणस्य इह मित्त्वार्थोऽनुवाद इत्यर्थः । ज्वलतीत्यादि सिद्धवत्कृत्य मित्त्वस्य णौ ह्रस्वं प्रयोजनमाह प्रज्वलयतीति । धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति बोध्यम् । स्मृ श्राध्याने । चिन्तायामिति । स्मृ चिन्तायामिति पठिष्यमाणस्य श्राध्याने मित्त्वार्थोऽनुवाद इत्यर्थः। चिन्ताया श्राध्यानमन्यदिति दर्शयितुमाह आध्यानमुत्कण्ठेति । दृ भय इति । अस्य दृणातीति रूपं नतु शप् , तदाह क्रयादेरय मित्त्वार्थोऽनुवाद इति । भयेऽर्थे मित्त्वार्थमिति शेषः । अर्थनिर्देशस्य उपलक्षणत्वाद् भये वृत्तिः। तथा च कथादित्वात् नाविकरण एवायमिति भावः । मित्त्वप्रयोजनं दर्शयति दृणन्तं प्रेरयति दरयतीति । भीषयतीत्यर्थः । भयादन्यत्र दारयतीति । भेदयतीत्यर्थः । धात्वन्तरमेवेति। नतु क्रयोदरनुवाद इत्यर्थः । अस्मिन्मते भौवादिकत्वात् शबेवेत्याह दरतीत्यादीति । सूत्रे चेति । 'अत्स्मृदृत्वरप्रथम्रदस्तृस्पशाम्' इति अत्वविधावित्यर्थः । हस्खं पठन्तीति । तन्मते क्रयादेरनुवादप्रसक्तिरेव नास्तीति भावः । तन्नेतीति। यदि ह्ययं घटादौ ह्रस्वान्तः कथादौ तु दीर्घान्तो भवेत् तर्हि 'शृदृप्रां ह्रस्वो वा' इत्यत्र दृग्रहणमनर्थकं स्यात् । ह्रस्वदीर्घान्तधातुभ्यामेव तत्फलसिद्धरिति भावः । न नय इति । नयो नयनम् । क्रयादिष्विति । नृ नये इत्येव कयादिषु 'ग्लानावनुवमां च' इति गणसूत्रेण । णप्रत्ययार्थमिति । 'ज्वलितिकसन्तेभ्यो णः' इति णप्रत्ययार्थम् । दृ भये । धातोरनेकार्थत्वाद्भयार्थकत्वम् दृणाति । दरयति । तन्नेतीति । माधवस्यायमाशयः-सूत्रे दीर्घान्त एव पाठः सर्वसंमतः । घटादावपि दीर्घान्त एव सर्वैः पठ्यते । यद्ययं हखान्तो भवेत्तर्हि 'शूदृप्रां ह्रखो वा' इति हखविकल्पविधायके सूत्रे दृप्रहणमनर्थकं स्यात् , धातुद्वयेन दद्रतुः ददरतुरिति रूपद्वयसिद्धेः । न च दृ विदारणे इत्यस्य रूपद्वयलाभार्थ दृग्रहणमावश्यकमिति वाच्यम् , धातूनामनेकार्थत्वात्समीहितसिद्धेरिति। न नये। नृणाति । नरयति । अनरि । अनारि।